*श्रीरामायणकथा, अयोध्याकाण्डम्।*
(द्वादशो भागः)
वनं प्रति गमनम्।
(द्वितीयः खण्डः)
रथम् आरुह्य श्रीरामः लक्ष्मणं सीतां च मातृभूमेः गरिमानं महत्वं च अश्रावयत्।
ते कलुषनाशिन्याः परमपावन्याः गङ्गायाः तटं प्राप्नुवन्। तत्रत्यं सुरम्यं वातावरणं ते अत्यन्तं कुतूहलेन पश्यन्ति स्म।
तत्र सर्वेषु क्षेत्रेषु हरितानि शस्यानि आसन्। वातावरणम् अत्यन्तं सुरम्यम् आसीत्। स्वर्णकलशैः सुशोभितं धवलमन्दिरं भक्तेः भावनां जागरयति स्म।
तत्रत्याः सर्वे आश्रमाः सामगानस्य ध्वनिना गुञ्जायमानाः आसन्। वायुमण्डलं हवनकुण्डेभ्यः निष्कासितेन धूमेन सुगन्धितं भवति स्म। अनन्यकालात् ऋषिमुनिभिः सेवितायाः पवित्रभागीरथ्याः जलं कल-कलनादेन द्रुतगत्या प्रवहति स्म। गङ्गायाः जले हंसः, कारण्डवः च इत्यादयः पक्षिणः विहारं कुर्वन्तः मधुरस्वरेण गायन्ति स्म। एतच्छ्रुत्वा एवं प्रतीयते स्म यत् ते गङ्गायाः स्तुतिं कुर्वन्ति स्म।
त्रिपथगायाः पुण्यसलिलायाः गङ्गायाः उभये तटे स्थिताः वृक्षाः सुगन्धितैः पुष्पैः सुसज्जिताः आसन्। तद् दृश्यं दृष्ट्वा एवं प्रतीयते स्म यद् वृक्षाः स्वपुष्पैः अर्ध्यं दत्त्वा गङ्गायाः अभिषेकं कुर्वन्ति स्म।
तद् मनोमुग्धकारि दृश्यं रामः लक्ष्मणः सीता च कुतूहलेन पश्यन्ति स्म। किञ्चित् कालानन्तरं रामः सुमन्तम् अवदत् हे मन्त्रिवर! अद्य वयम् अत्रैव विश्रमं करिष्यामः। तस्मिन् स्थले एकस्मिन् विशाले वृक्षे अत्यन्तं सुन्दराणि आकर्षकाणि फलानि फलितानि आसन्। रामः अवदत् - अद्य वयम् एतानि फलानि भुक्त्वा रात्रियापनं करिष्यामः।
रामचन्द्रस्य आदेशं प्राप्य सुमन्तः रथं तत्रैव विशालवृक्षस्य अधः अस्थापयत् रथस्य अश्वान् च तत्रत्यानि हरितानि तृणानि चरितुम् अमुञ्चत्।
*-प्रदीपः!*
No comments:
Post a Comment