Sunday, February 11, 2024

Srimad Ramayana Ayodhya kanda part 3 in sanskrit

*श्रीरामायणकथा, अयोध्याकाण्डम्।*
(तृतीयो भागः)
कोपभवने राज्ञी कैकेयी।
(द्वितीयः खण्डः)

भवत्याः पुत्रः भरतोऽपि रामस्य दासः भवेत्। भरतः यदा रामस्य दासः भविष्यति तदा भवत्याः वधूः अपि दास्याः पदवीं प्राप्स्यति। 
मन्थरायाः वचनानि श्रुत्वा कैकेयी अवदत् हे मन्थरे!  रामः महाराजस्य ज्येष्ठपुत्रः, सः च प्रजासु अत्यन्तं प्रियः वर्तते। तस्य सद्गुणानां कारणतः सः भ्रातृषु  श्रेष्ठोऽपि वर्तते। रामः तस्य सर्वेषु भ्रातृषु अत्यन्तं स्निह्यति। 

रामः तस्य सर्वान् भ्रातॄन् आत्मवद् मन्यते। अतः रामः यदि राज्यं प्राप्स्यति तर्हि भरतः एव प्राप्स्यति।   
राज्ञ्याः कैकेय्याः तद् वचनं श्रुत्वा मन्थरायाः महद् दुःखम् अभवत्। सा अवदत् हे महाराज्ञि! भवती एतद् न अवगच्छति यद् रामात् परम् अयोध्यायाः राजसिंहासनं तस्य पुत्रः प्राप्स्यति, तथा च भरतः चिरकालाय राजपरम्परातः पृथग् भवेत्। 

अपिच एवमपि भवितुम् अर्हेत् यद् राज्यं प्राप्य रामः भरतं राज्यात् निर्वासितं कुर्यात्।
स्वपुत्रस्य अनिष्टस्य आशङ्कायाः वार्तां श्रुत्वा कैकेय्याः हृदयं विचलितम् अभवत्। सा मन्थराम् अपृच्छत्- एवं परिस्थितौ मया किं करणीयम्?  

मन्थरा तदा अवदत् हे महाराज्ञि! भवत्याः स्मरणे अस्ति एव यद् एकदा देवासुरसङ्ग्रामे देवराजस्य इन्द्रस्य साहाय्यार्थं युद्धे भागं ग्रहीतुं राजा दशरथः भवतीं नीत्वा अगच्छत्।  तस्मिन् युद्धे असुराणाम् अस्त्रशस्त्रैः महाराजस्य शरीरं जर्जरम् अभवत्, सः च मूर्छितः अभवत्। तस्मिन् समये भवती एव तस्य सारथिः भूत्वा तस्य रक्षणम् अकरोत्।

भवत्याः तत्सेवायाः परिवर्ते सः भवत्यै वरद्वयम् अददात् यद् भवती अद्य पर्यन्तं न अयाचत। 
इदानीं भवती एकं वरं भरतस्य राज्याभिषेकाय याचताम् अपरं वरं च चतुर्दशवर्षाणां कृते रामस्य वनवासाय याचताम्। एवं वरद्वयं याचित्वा स्वीयं मनोरथं सिद्धीकुर्यात्। 

शीघ्रातिशीघ्रं भवती मलिनं वस्त्रं धृत्वा कोपभवनं गच्छतु। महाराजः भवतीम् अतीव प्रीणाति, अतः सः अवश्यं भवतीम् अनुनयविनयं कर्तुम् आगमिष्यति, तस्मिन् समये भवती तं वरद्वयं याचताम्। निश्चयेन सः वरद्वयं प्रदातुं सज्जः भवेत्। किन्तु स्मर्यतां यद् वरयाचनात् पूर्वं तेन प्रतिज्ञां कारयतु यत् सः वरं प्रदातुं बाध्यः भवेत्। 

मन्थरायाः कथनानुसारं कैकेयी कोपभवनं गत्वा अशेत। 
*-प्रदीपः!*

No comments:

Post a Comment