*श्रीरामायणकथा, अयोध्याकाण्डम्!*
(द्वितीयः भागः)
राजतिलकस्य प्रस्तुतिः।
(द्वितीयः खण्डः)
चतुरङ्गिणीसेना सुसज्जिता भवतु इत्यस्य आदेशः दीयताम्।
स्वर्णेन सज्जितः गजः, सूर्याङ्कितः ध्वजः, परम्परया प्रचलितं श्वेतवर्णं निर्मलछत्रम्, स्वर्णेन निर्मितः अश्वः, स्वर्णेन मण्डितः शृङ्गेयुक्तः वृषभः, सिंहस्य अक्षुण्णा त्वक् च इत्यादीनां शीघ्रं प्रबन्धः क्रियताम्। सुसज्जितायाः वेद्याः निर्माणं क्रियताम्।
एवं प्रकारेण अन्यः यावान् आवश्यकः निर्देशः आसीत् , तं सर्वं सः सम्बन्धिताधिकारिभ्यः अददात्।
ततः परं राजा दशरथः प्रधानमन्त्रिणं सुमन्तं रामम् आनेतुम् आदिशत्। महाराजस्य आज्ञानुसारं प्रधानमन्त्री सुमन्तः रामचन्द्रं स्वेन सह रथे आसयित्वा आनयत्। अत्यन्तं श्रद्धया रामः पितरं दशरथं प्राणमत्, उपस्थितानां सर्वेषां महानुभावानां यथोचितम् अभिवादनम् अकरोत्।
राजा दशरथः रामं स्वपार्श्वे आसयित्वा स्मित्वा अवदत् हे राम! तव गुणेषु सर्वाः प्रजाः सन्तुष्टाः सन्ति, अतः अहं निश्चयम् अकरवं यत् श्वः तव राज्याभिषेकं कारयेयम्। अस्मिन् विषये अहं ब्राह्मणः, मन्त्री, विद्वान्, ऋषिः, महाराजः, प्रजाः च इत्येतेषां सर्वेषां सम्मतिं प्राप्नवम्। अवसरेऽस्मिन् अहं तुभ्यं मम अनुभवात् प्राप्तशिक्षां प्रदातुम् इच्छामि। अतः हे राम! त्वया कदाचिदपि विनयशीलता न त्यक्तव्या। इन्द्रियाणि सर्वदा वशीकरणीयानि। मन्त्रिणां मनसि उद्भूतान् विचारान् प्रत्यक्षरूपेण ज्ञातुम् अवगन्तुं च प्रयत्नः करणीयः। प्रजाः सर्वदा सन्तुष्टाः भवन्तु तदर्थं प्रयासः करणीयः।
यदि त्वं मम विचाराणाम् अनुसरणं कुर्याः तर्हि त्वं सर्वप्रकारविपत्तिभ्यः सुरक्षितः तिष्ठेः, लोकप्रियतां च समर्जन् निष्कलङ्कः भूत्वा राजकार्यं चालयितुं शक्नुयाः।
अयमेव सिद्धान्तः यद् यः राजा प्रजानां कल्याणाय सर्वदा तत्परः भवति तस्य कश्चिदपि शत्रुः न भवति।
यदि कश्चिद् नागरिकः स्वार्थाय राज्ञः किमपि अनिष्टं कर्तुम् इच्छति तर्हि सः तस्य उद्देश्ये सफलः न भवेत् , यतः तादृशः राजा प्रजानां मित्राणां च समर्थनं प्राप्नोति।
पितुः उपयोगिशिक्षां प्राप्य रामः आत्मानं धन्यम् अमन्यत पित्रे च आश्वासनम् अददात् यत् सः तस्य उपदेशानां पालनं करिष्यति।
राज्ञः मुखात् श्रीरामस्य राज्याभिषेकस्य वार्तां श्रुत्वा दासी अत्यन्तं प्रसन्ना भूत्वा राज्ञ्याः कौशल्यायाः समीपं गत्वा ताम् एतं शुभसंवादम् अश्रावयत्। एतं शुभसंवादं श्रुत्वा राज्ञी कौशल्या अत्यन्तं पुलकिता अभवत्। सा च सन्तुष्टा भूत्वा तस्यै दास्यै स्वर्णम्, वस्त्रम्, आभूषणं च इत्यादीनि अददात्।
*-प्रदीपः!*
No comments:
Post a Comment