Saturday, February 24, 2024

Srimad Ramayana Ayodhya kanda part 24 in sanskrit

*श्रीरामायणकथा, अयोध्याकाण्डम्!*
(चतुर्विंशतितमो भागः)
अयोध्यां प्रति भरतस्य प्रत्यागमनम्। 

रामः भरतं हृदयेन सह सङ्क्त्वा अवदत् भ्रातः भरत! त्वं तु अत्यन्तं नीतिमान् असि। किं त्वम् एवं चिन्चयसि यद् राज्यस्य कृते अहं मम पितुः वचनं निरस्तीकुर्याम्? किम् अहं धर्मात् विमुखः भवेयम्? किम् एतद् उचितं भवेत्? यत्किमपि वा अभवत् तत्र तव मनागपि दोषः नास्ति। त्वं दुःखितः लज्जितः च मा भूः। एतस्य किञ्चिन्मात्रमपि आवश्यकता नास्ति।

मातुः कैकेय्याः निन्दनमपि नास्ति उचितम्, यतः सा पितुः अनुमत्या हि वरम् अयाचत। मत्कृते तु माता कैकेयी माता कौशल्या च उभे अपि समानरूपेण  सम्माननीये स्तः। त्वं जानासि एव यद् अहं पितुः आज्ञायाः उल्लङ्घनं कदापि कर्तुं न शक्नोमि। पिता स्वयं तुभ्यं राज्यम् अददात्, अतः तस्य ग्रहणं तव कर्तव्यम् अस्ति।
पितुः परलोकगमनस्य मम अत्यन्तं दुःखम् अस्ति। मां दुर्भगं सः तस्य सेवा, अन्तिमदर्शनम्, दाहसंस्कारः च इत्यादिव्यः वञ्चितम् अकरोत्। 

एवं कथयतः रामस्य नेत्राभ्याम् अश्रूणि प्रवहन्ति स्म। पुनः सः सीताम् अवदत् हे प्रिये!
पूज्यः पिता अस्मान् त्यक्त्वा चिरकालाय स्वर्गलोकम् अगच्छत्। ततः परं रामः लक्ष्मणं सम्बोधयन् अवदत् 
हे सौमित्र! सद्यः भरतस्य मुखात् अहम् अशृणवं यद् वयं सर्वे पितृविहीनाः अभवाम। एतां सूचनां प्राप्य सीता लक्ष्मणः च रुदतः स्म। ततः परं रामः प्रयासपूर्वकं धैर्यम् अधरत्, सीतालक्ष्मणाभ्यां च सह मन्दाकिनीनद्याः तटं गत्वा पित्रे जलाञ्जलिम् अददात्। छिन्नं वल्कलं धृत्वा हङ्गुदी इत्यस्य ओदनेन पिण्डं निर्माय तं पिण्डं कुशे स्थापयित्वा ते तस्य तर्पणम् अकुर्वन्।

पिण्डदानं स्नानं च इत्यादिभ्यः निवृत्ताः भूत्वा स्वीयं कुटीरं गत्वा रामः लक्ष्मणस्य स्कन्धं गृहीत्वा रोदिति स्म।
तस्य आर्तनादं श्रुत्वा गुरुः वसिष्ठः सर्वाः राज्ञ्यः च तत्र अगच्छन्। तत्र गत्वा सर्वाः राज्ञ्यः अपि विलापं कुर्वत्यः रुदन्ति स्म। पुनः रामः प्रयासपूर्वकम् आत्मानं सम्भालयित्वा रामः, सीता, लक्ष्मणः च सर्वे गुरोः वसिष्ठस्य मातॄणां च चरणवन्दनम् अकुर्वन्। 

किञ्चित् कालानन्तरं सर्वे रामचन्द्रं वेष्टित्वा उपविश्य महाराजस्य दशरथस्य विषये चर्चां कर्तुम् आरभन्त। एवमेव रात्रिः व्यतीता अभवत्।
प्रातःकाले संध्योपासनादिभ्यः  निवृत्तः भूत्वा भरतः मन्त्रिभिः सह रामस्य समीपम् आगत्य अवदत्  हे रघुकुलशिरोमणि! प्रतिज्ञाबद्धः भूत्वा पिता अयोध्यायाः राज्यं मह्यम् अददात्। तद् राज्यम् इदानीम् अहं भवते समर्पयामि, कृपया तत् स्वीकरोतु। 
रामः अब्रवीत् भरत! अहं जानामि यत् पितुः मृत्योः मम च वनवासस्य कारणात् त्वम्  अत्यन्तं दुःखितः असि। किन्तु विधेः विधानं कः परिवर्तयितुं शक्नुयात्।

एतस्य कृते कस्मै अपि दोषप्रदानस्य आवश्यकता नास्ति।  संयोगेन सह वियोगस्य सम्बन्धः, जन्मना सह च मृत्योः सम्बन्धः तु अनन्तकालात् प्रचलति। अस्माकं पिता सहस्रशः यज्ञः दानं तपः च इत्यादीनि कृत्वा हि अनन्तरं स्वर्गलोकम् अगच्छत्, अतः तस्य कृते शोकः व्यर्थः एव।
त्वं पितुः आज्ञायाः पालनं कुर्वन् अयोध्यायाः राज्यं पालय, अहं च पितुः आज्ञायाः पालनं कुर्वन् वने निवसेयम्।
यदि आवाम् एवं न कुर्याव तर्हि नरकं प्राप्नुयाव।

रामस्य तर्कपूर्णं वचनम् अवितथम् आसीत्। रामस्य तद् वचनं श्रुत्वा भरतः हस्तौ योजयित्वा अब्रवीत् हे आर्य! तस्याः  दुर्घटनायाः समये अहं मातामहस्य गृहे आसम्।
मम मातुः मूर्खतायाः कारणात् तत् सर्वम् अनिष्टम् अभवत्। ममापि धर्माधर्मयोः ज्ञानम् अस्ति, अतः अहं भवतः अधिकारस्य अपहरणं कदापि कर्तुं न शक्नोमि। भवान् क्षत्रियः अस्ति, अपिच क्षत्रियस्य धर्मः जटां धृत्वा तपस्वी भवतु इति न, अपितु सः प्रजानां पालनं कुर्यात्।

आयुः, ज्ञानम्, विद्या च इत्यादिभिः सर्वैः अहं भवतः कनीयान् भूत्वा अपि कथमहं सिंहासने आरोढुं शक्नुयाम्? अतः भवन्तं प्रार्थये यद् भवान् राजसिंहासने उपविश्य मम मातरंं लोकनिन्दातः पितरं च पापात् रक्षतु, अन्यथा मह्यमपि वने स्थातुम् अनुमतिं ददातु।
रामचन्द्रः पुनः भरतं प्रबोधयन् अवदत्, पिता तुभ्यं राज्यम् अददात् मह्यं च चतुर्दशवर्षाणां कृते वनवासस्य आज्ञाम् अददात्। यथा अहं श्रद्धया तस्य वचनस्य पालनं करोमि, तथा त्वमपि तस्य आदेशम्  अकाट्यं मत्वा अयोध्यां पालय। तस्य वचनस्य पालनं यदि आवां न कुर्याव तर्हि तस्य आत्मा क्लेशं प्राप्नुयात्। राजकार्ये तव साहाय्यार्थं शत्रुघ्नः तु अस्ति एव। पित्रे तस्य प्रतिज्ञायाः  ऋणात् मुक्तिप्रदानम् अस्माकं सर्वेषां भ्रातॄणां कर्तव्यम्।
*-प्रदीपः!*

No comments:

Post a Comment