*श्रीरामायणकथा, अयोध्याकाण्डम्!*
(चतुर्विंशतितमो भागः)
अयोध्यां प्रति भरतस्य प्रत्यागमनम्।
(द्वितीयः खण्डः)
रामचन्द्रस्य वचनानि श्रुत्वा अयोध्यायाः अत्यन्तं चतुरः मन्त्री जाबालिः अवदत् हे रामचन्द्र! एतत् सर्वं वितथम् एव। संसारेऽस्मिन् कः कस्य बन्धुः? जीवः एकाकी जन्मग्रहणं करोति एकाकी च नष्टः भवति। एतदेव सत्यं यत् संसारेऽस्मिन् कश्चिदपि कस्यापि सम्बन्धी न भवति। सम्बन्धानां मायाजाले बद्धः भूत्वा आत्मनः विनष्टीकरणं बुद्धिमतः कार्यं नास्ति। अतः हे राम! भवान् पितृर्णस्य वितथं विचारं त्यजतु, राज्यं च स्वीकरोतु। स्वर्गः , नरकम्, परलोकः, कर्मणः फलं च इत्यादिकं सर्वं काल्पनिकं वर्तते। यत् प्रत्यक्षं दृश्यते तदेव सत्यम्। परलोकस्य मिथ्या कल्पनया आत्मनः नष्टीकरणं भवतः कृते नास्ति उचितम्।
जाबालिमहोदयस्य वचनं श्रुत्वा रामः अवदत् मन्त्रिवर! भवतः अयं नास्तिकविचारः मत्कृते उचितः नास्ति, प्रत्युत मम हानये स्यात्। अहं सदाचाराय सच्चरित्रतायै च अत्यधिकं महत्वं ददामि। यदि राजा हि सत्यस्य मार्गात् विचलितः भवेत् तर्हि प्रजाः अपि तस्यैव अनुसरणं कुर्वत्यः कुपथगामिन्यः भविष्यन्ति। अहं भवतः इमं अनुचितम् उपदेशं स्वीकर्तुं न शक्नोमि। मम तु आश्चर्यं भवति दुःखमपि भवति यद् मम परमास्तिकः तथा धर्मपरायणः पिता भवादृशाय नास्तिकाय कथं मन्त्रिपदम् अददात्!
रामस्य तद् रोषपूर्णं वचनं श्रुत्वा जाबालिः अवदत् हे राघव! अहं नास्तिकः नास्मि। भरतेन कृतं वारं वारम् आग्रहं भवान् न स्वीकरोति इति दृष्ट्वा अहं तद् वचनम् अवदम्। मम उद्देश्यं तु केवलं भवन्तं नीत्वा अयोध्यां प्रति गमनम् इत्येव। भवन्तम् अयोध्यां प्रति नेतुम् एतदतिरिच्य मम अन्यः उपायः नासीत्। अतः क्षन्तव्योऽहम्।
केनचिदपि प्रकारेण रामः भरतस्य प्रार्थनां न स्व्यकरोत्।
विवशः भूत्वा भरतः हस्तौ योजयित्वा अवदत् हे भ्रातः! अहं दृढप्रतिज्ञाम् अकरवं यद् अहं भवतः राज्यं कदापि न स्वीकरोमि। यदि भवान् पितुः आज्ञायाः पालनं कर्तुम् इच्छति तर्हि भवतः स्थाने अहं स्थास्यामि इत्यस्य मह्यम् आज्ञां ददातु। भवतः परिवर्ते यदि अहं वने निवासं कुर्यां तर्हि अपि पिता मातुः ऋणात् मुक्तः भविष्यति।
भरतस्य तत् स्नेहपूर्णं वचनं श्रुत्वा रामः मन्त्रिणः पुरवासिनः च सम्बोधयन् अवदत्, यत्किमपि वा अभवत् तद् अहं परिवर्तयितुं न शक्नोमि न च भरतः परिवर्तयितुं शक्नुयात्। वनवासस्य आज्ञा मत्कृते अभवत्, न तु भरतस्य कृते। मातुः कैकेय्याः वचनं पितुः च कर्म इत्युभयमपि अहम् उचितं मन्ये।
भरतः महान् मातृभक्तः, पितृभक्तः, गुरुभक्तः च इत्यादिभिः सह सः सर्वगुणसम्पन्नः अपि विद्यते। अतः सः एव राज्यं पालयेत्।
यदा रामः केनापि प्रकारेण अयोध्यां प्रति आगन्तुं न अङ्गीकरोति स्म तदा भरतः रुदन् अवदत् हे भ्रातः! अहं जानामि यद् भवतः प्रतिज्ञा अक्षुण्णा अस्ति, किन्तु एतदपि सत्यं यद् अयोध्यायाः राज्यं भवतः एवास्ति। अतः भवान् मह्यं भवतः चरणकादुके ददातु। अहं ते चरणपादुके राजसिंहासने स्थापयित्वा राज्यं पालयिष्यामि, स्वयं च वल्कलं धृत्वा ब्रह्मचर्यव्रतस्य पालनं कुर्वन् नगरस्य बहिः स्थित्वा भवतः सेवारूपेण राजकार्यं चालयिष्यामि।
चतुर्दशवर्षाणाम् अनन्तरं यदि भवान् अयोध्यां प्रति न आगच्छेत् तर्हि अहम् अग्नौ पतित्वा आत्मानं भस्मसात् कुर्याम्। इयमेव मम प्रतिज्ञा वर्तते।
रामचन्द्रः भरतम् आलिङ्ग्य तस्मै स्वीये पादुके अददात्। पुनः रामः शत्रुघ्नं प्रबोधयन् अवदत् भ्रातः शत्रुघ्न! मातरं कैकेयीं कदापि अपशब्दम् उक्त्वा तस्याः अपमानं मा कार्षीः। एतन्न विस्मर यत् सा अस्माकं सर्वेषां पूज्या माता अस्ति।
पुनः धैर्येण सम्मानपूर्वकं मातॄणां चरणवन्दनं कृत्वा तान् सर्वान् ततः अयोध्यां प्रति अप्रेषयत्।
श्रीरामस्य चरणपादुके नीत्वा भरतः शत्रुघ्नः च रथम् आरोहताम्। तयोः पृष्ठतः अनेकान् रथान् आरुह्य मातरः, गुरुः, पुरोहितः, मन्त्रिगणः, तथा अन्ये पुरवासिनः ततः अयोध्यां प्रति प्रस्थानम् अकुर्वन्। उद्विग्नमनसा ते सर्वे दिनत्रयात् परम् अयोध्यां प्राप्नुवन्।
यदा ते अयोध्यां प्राप्नुवन् तदा भरतः गुरुं वसिष्ठम् अवदत् गुरुदेव! भवान् तु जानाति यद् अयोध्यायाः वास्तविकः नरेशः तु रामः एव। तस्य अनुपस्थितौ तस्य इमे पादुके सिंहासनस्य शोभां वर्धयिष्यतः। अहं नगरात् दूरे नन्दिग्रामे पर्णकुटीरं निर्माय तत्र निवासं करिष्यामि, ततः च राजकार्यस्य सञ्चालनं करिष्यामि।
पुनः नन्दिग्रामे स्थित्वा हि भरतः रामस्य प्रतिनिधित्वेन राज्यं पालयति स्म।
*-प्रदीपः!*
No comments:
Post a Comment