*श्रीरामायणकथा, अयोध्याकाण्डम्।*
(त्रयोविंशतितमो भागः)
रामभरतयोः मेलनम्)
अनेकप्राकृतिक-शोभायुक्तानि दर्शनीयस्थलानि चित्रकूटपर्वते आसन्, अतः चित्रकूटे निवासं कुर्वन् रामः तानि रमणीयस्थलानि द्रष्टुं सीतां नीत्वा भ्रमति स्म। विभिन्नप्रकार-पक्षी, पर्वतमाला, शिखरम्, विभिन्नप्रकारफलैः युक्तः वृक्षः च इत्यादीनि दृष्ट्वा सीता अत्यन्तं प्रसन्ना भवति स्म।
एवमेव एकदा यदा रामः सीतया सह प्राकृतिकदृश्यानि पश्यति स्म तदा सहसा चतुरङ्गिणीसेनायाः कोलाहलम् अशृणोत्। तस्मात् वन्यपशवः इतस्ततः धावन्ति स्म। एवं दृष्ट्वा रामः लक्ष्मणम् अब्रवीत् हे सौमित्र! पश्य! वन्यपशवः इतस्ततः धावन्ति। एतद् दृष्ट्वा तु एवं प्रतीयते यद् अस्मिन् वने कस्यचिद् राज्ञः अथवा राजकुमारस्य आगमनम् अभवत्। हे वीर! त्वं गत्वा तस्य सत्यासत्यं ज्ञात्वा आगच्छ।
लक्ष्मणः तत्क्षणं हि एकं विशालं वृक्षम् आरुह्य इतस्ततः पश्यति स्म। सः उत्तरदिशि अपश्यत् यद् विशालसेना, गजः,अश्वः, अस्त्रशस्त्रैः सुसज्जिताः सैनिकाः च आगच्छन्ति, येषां पुरतः अयोध्यायाः ध्वजः दृश्यते स्म।
तद् दृष्ट्वा हि लक्ष्मणः अवागच्छत् यद् सा तु अयोध्यायाः सेना इति। शीघ्रं हि वृक्षात् अवतीर्य रामस्य समीपम् आगत्य क्रोधेन कम्पमानः लक्ष्मणः अब्रवीत् हे भ्रातः! कैकेय्याः पुत्रः भरतः सेनां नीत्वा आगच्छति। अवश्यं हि सः अस्मान् निःसहायान् प्राप्य अस्माकं वधं कर्तुम् इच्छति, येन सः निष्कण्टकः भूत्वा अयोध्याराज्यं पालयितुं शक्नुयात्। अद्य अहं तं पापिनं तस्य पापस्य फलं दर्शयिष्यामि।
हे भ्रातः! आगच्छतु, वयं कवचैः सुसज्जिताः भूत्वा पर्वतस्य शिखरं गच्छेम। रामः तदा अवदत् हे सौमित्र! त्वम् इत्थं कीदृशीं वार्तां करोषि? अत्र अस्त्रशस्त्राणाम् आवश्यकता नास्ति। भरतः तु मम अत्यन्तं प्रियः। तस्य स्वागतं किम् अस्त्रशस्त्रैः क्रियेत? अवश्यं हि सः मां अयोध्यां प्रति नेतुम् आगच्छेत्। आवयोः मध्ये नास्ति भेदः, अतः त्वं भरतं प्रति यं कठोरशब्दम् अवदः, तं शब्दं तु मत्कृते अवदः। हे लक्ष्मण! स्मर्यतां यत् कस्यामपि परिस्थितौ पुत्रः पितुः प्राणान् न हरति, भ्राता च भ्रातुः प्राणान् न हरति।
रामस्य भर्त्सनायुक्तां वाणीं श्रुत्वा लक्ष्मणः अब्रवीत् हे प्रभो! सेनायां पितुः श्वेतछत्रं नास्ति, अतः मम शङ्का अभवत्। तदर्थं क्षन्तव्योऽहम्।
पर्वतस्य निकटे सेनां स्थापयित्वा भरतशत्रुघ्नौ रामस्य कुटीरं प्रति अगच्छताम्। तौ अपश्यतां यद् यज्ञवेद्याः समीपे मृगचर्मणः उपरि जटाधारी रामः वल्कलं धृत्वा उपाविशत्। तौ रुदन्तौ धावित्वा रामस्य समीपम् आगच्छताम्।
भरतस्य मुखात् केवलं हे आर्य! इत्येव शब्दः निःसरति स्म, सः च मूर्च्छितः भूत्वा रामस्य चरणयोः अपतत्। शत्रुघ्नस्यापि सा एव दशा आसीत्।
रामः तौ उभावपि भ्रातरौ भूम्याः उत्थाप्य हृदयेन असजत्, अपृच्छत् च हे भरत! पिता मातरः च कथं सन्ति? सर्वे कुशलिनः सन्ति ननु? कुलगुरुः वसिष्ठः कथम् अस्ति? एतत् किम्? त्वं किमर्थं तपस्विवद् वल्कलं धरसि?
रामचन्द्रस्य वचनानि श्रुत्वा अश्रुपूरितः भरतः अवदत् भ्रातः! अस्माकं परमतेजस्वी धर्मपरायणः पिता स्वर्गलोकम् अगच्छत्। मम दुष्टा माता महत् पापम् अकरोत्, तत्कारणाद् अहं कलङ्कितः अभवम्। तदर्थम् अहं कमपि मम मुखं दर्शयितुं न शक्नोमि। इदानीम् अहं भवतः शरणम् आगच्छामि। भवान् अयोध्यायाः राज्यं पालयित्वा मम उद्धारं करोतु। सर्वः मन्त्रिगणः, तिस्रः मातरः गुरुः वसिष्ठः च इमामेव प्रार्थनां नीत्वा भवतः समीपम् आगच्छन्। अहं भवतः कनिष्ठः भ्राता अस्मि, पुत्रस्य समानः अस्मि। मात्रा अहं कलङ्कितः अभवम्। अतः हे भ्रातः! तस्मात् कलङ्कात् मां रक्षतु इति अहं वारं वारं निवेदयामि।
एवमुक्त्वा भरतः पुनः रुदन् रामस्य चरणयोः अपतत्, पुनः पुनः च अयोध्यां प्रतिगन्तुम् अनुनयविनयं करोति स्म।
*-प्रदीपः!*
No comments:
Post a Comment