Thursday, February 22, 2024

Srimad Ramayana Ayodhya kanda part 22 in sanskrit

*श्रीरामायणकथा, अयोध्याकाण्डम्।*
(द्वाविंशतितमो भागः)
महाराजस्य अन्त्येष्टिः।

परेद्यवि प्रातःकाले गुरुः वसिष्ठः शोकाकुलं भरतं महाराजस्य दशरथस्य अन्त्येष्टिं कर्तुम् अप्रेरयत्। गुरोः आज्ञायाः पालनं कुर्वन् भरतः अत्यन्तं प्रयत्नेन स्वर्गीयपितुः प्रेतकर्म आरभत। तैलकुण्डे स्थापितं महाराजस्य मृतशरीरं निष्कास्य मञ्चके अस्थाप्यत। पितुः शवं दृष्ट्वा भरतस्य हृदयम् अत्यन्तं विचलितम् अभवत्।

रुदित्वा रुदित्वा सः वदति स्म- हे पितः! भवान् मां त्यक्त्वा अगच्छत्। भवान् मनागपि विचारं न अकरोत् यद् अनाथः भूत्वा अहं कस्य आश्रये जीवामि? भवान् मया सह वार्तालापं न करोति यतः भवान् मां दोषीं मन्यते। भवान् तु  स्वर्गलोकम् अगच्छत्, भ्राता रामः वनम् अगच्छत्, इदानीम् एतद् अयोध्याराज्यं कः पालयेत्?

एवं प्रकारेण विलापं कुर्वन्तं भरतं दृष्ट्वा गुरुः वसिष्ठः अब्रवीत् वत्स! इदानीं शोकं त्यक्त्वा महाराजस्य प्रेतकर्मणः आरम्भं कुरु। 
गुरोः आदेशेन भरतः मञ्चकं रत्नैः सुसज्जितं कृत्वा पुरोहितानाम्  आचार्याणां च निर्देशानुसारम् अग्निहोत्रम् अकरोत्।  भरतः, शत्रुघ्नः वरिष्ठमन्त्रीगणः च शवमञ्चकं स्कन्धे धृत्वा श्मशानं प्रति अगच्छन्। रुदन्तः प्रजाजनाः अपि शवयात्रायाः पृष्ठतः गच्छन्ति स्म। तत्समये निर्धनेभ्यः स्वर्णम्, रजतम्, रत्नं च इत्यादीनि वस्तूनि दीयन्ते स्म। सरयूनद्याः तटे चन्दनम्, गुग्गुलः च इत्यादिभिः चितायाः निर्माणं कृत्वा ते तस्यां चितायां महाराजस्य शवम् अशाययन्। सर्वाः राज्ञ्यः विलापं कुर्वत्यः रुदन्ति स्म।  

भरतः चितायाम् अग्निं प्रज्वालयत् तस्मात् सत्यपरायणस्य महात्मनः दशरथस्य नश्वरं शरीरं पञ्चभूते विलीनम् अभवत्।
त्रयोदशे दिनाङ्के यदा भरतः पितुः अन्तिमसंस्कारात् निवृत्तः अभवत् तदा मन्त्रिणः तं निवेदयन्तः अब्रुवन् हे रघुकुलभूषण! दिवङ्गतः महाराजः भवन्तं राजानं कारयित्वा अगच्छत् अतः भवान् अस्माकं राजा अस्ति। इदानीं भवान् सिंहासनारूढ़ः सन् राज्यं पालयतु। 

भरतः तदा अवदत्, रघुकुलस्य रीतिः एव यत् सर्वदा राज्ञः ज्येष्ठपुत्रः राजा भवति। अतः अस्मिन् सिंहासने मम अधिकारः नास्ति। अस्मिन् सिंहासने केवलं महात्मनः श्रीरामस्य अधिकारः अस्ति। अहं निश्चयम् अकरवं यद् अहं श्रीरामं वनात् आनाय्य तस्य स्थाने अहं स्वयं चतुर्दशवर्षं यावत् वने निवत्स्यामि। अतः भवन्तः सर्वे शीघ्रं हि भ्रातरं रामं वनात् प्रत्यानेतुं वनगमनाय सज्जतां कुर्वन्तु। 

भरतस्य तद् वचनं श्रुत्वा सर्वेषु जनेषु नूतनः उत्साहः उत्पन्नः अभवत्। तेषां मनसि रामस्य प्रत्यागमनस्य आशा प्रबला अभवत्। वनगमनाय समस्ता सज्जता यदा पूर्णा अभवत् तदा भरतः, शत्रुघ्नः, तिस्रः मातरः, मन्त्रीगणः च इत्यादयः सर्वे चतुरङ्गिणीसेनया सह वनं प्रति प्रस्थानम् अकुर्वन्। प्रजाजनाः अत्यन्तम् उत्साहेन रामभरतयोः जयजयकारं कुर्वन्तः तेषां पृष्ठतः गच्छन्ति स्म।

ते गत्वा निषादराजगुहस्य नगरस्य निकटे गङ्गानद्याः तटे अतिष्ठन्। 
विशालसेनया सह भरतस्य आगमनस्य सूचनां निषादराजः प्राप्नोत्। सः स्वीयं सेनापतिम् आहूय अवदत् हे सेनापते! भवन्तः सर्वे जानन्ति यद् रामचन्द्रः अस्माकं मित्रम् अस्ति।
*प्रदीपः!*

No comments:

Post a Comment