Thursday, February 22, 2024

Srimad Ramayana Ayodhya kanda part 22a in sanskrit

*श्रीरामायणकथा, अयोध्याकाण्डम्।*
(द्वाविंशतितमो भागः)
महाराजस्य अन्त्येष्टिः।
(द्वितीयः खण्डः)

वयं न जानीमः यद् भरतः किमर्थं विशालसेनया सह आगच्छत्। अतः स्वीयान् सैनिकान् भवन्तः इतस्ततः गूहयन्तु।  पञ्च-षड्नौकासु शताधिकाः सैनिकाः अस्त्रशस्त्रैः सुसज्जिताः भवन्तु।  यदि भरतः रामस्य समीपं निष्कपटभावेन गन्तुम् इच्छाति तर्हि गमयन्तु, अन्यथा तान् सर्वान् मार्गमध्ये हि मृत्युमुखे पातयन्तु।

एवं सेनापतिं सावधानं कृत्वा अनन्तरं सः  स्वागतसामग्रीः नीत्वा भरतस्य समीपम् अगच्छत्, तम् अवदत् च हे राघव! कामपि पूर्वसूचनां विना भवतः अत्र आगमनस्य कारणात् अहं भवतः यथोचितसत्कारस्य व्यवस्थां कर्तुं न अशक्नवम्। तदर्थं क्षन्तव्योऽहम्। भवन्तं निवेदयामि यद् अद्य रात्रौ भवन्तः अत्रैव विश्रमं कुर्वन्तु, शुष्कं भोजनं च स्वीकृत्य अस्मान् धन्यान् कुर्वन्तु। 

निषादराजस्य प्रेमयुक्तं वचनं श्रुत्वा भरतः अब्रवीत् हे निषादराज! अहं ऋषेः भरद्वाजस्य आश्रमं गन्तुम् इच्छामि, यतः भ्राता रामः तत्र अगच्छत्।यदि भवान् मम मार्गदर्शनं कारयेत् तर्हि अहं कृतज्ञः भविष्यामि।
निषादराज अवदत् प्रभो! भवान् चिन्तां न करोतु। मम सैनिकाः भवतः मार्गप्रदर्शनं कारयिष्यन्ति, किन्तु भवान् एतावतीं विशालसेनां नीत्वा रामचन्द्रस्य समीपं किमर्थं गन्तुम् इच्छति? 
निषादराजस्य हृदयस्य शङ्कायाः अनुमानं कुर्वन् भरतः अब्रवीत् हे निषादराज! अहं भ्रातरं रामं वनात् आनीय तस्मै तस्य राज्यं समर्पयितुम् इच्छामि, यतः सः मम ज्येष्ठः भ्राता अस्ति। स च मम पितृतुल्यः अस्ति। मम अस्मिन् कार्ये मम मातरः मन्त्रिगणः च सर्वे साहाय्यं कुर्वन्ति। 

भरतस्य वचनं श्रुत्वा निषादराजस्य अत्यन्तं सन्तोषः अभवत्। सर्वैः सह भरतः तत्रैव रात्रियापनम् अकरोत्। प्रातःकाले निषादराजस्य आज्ञया गङ्गानद्याः तटे शतशः नौकानां प्रबन्धः अभवत् , ते सर्वे च ताः नौकाः आरुह्य गङ्गानदीम् उदतरन्। 
ते सर्वे महर्षेः भरद्वाजस्य आश्रमं प्राप्नुवन्। तेषां यथोचितसत्कारात् परं महर्षिः भरतं वनं प्रति आगमनस्य कारणम् अपृच्छत्।
भरतः हस्तौ योजयित्वा अवदत् महामुने! अहं मम भ्रातुः रामस्य दासः अस्मि। मम माता कैकेयी यत्किमपि वा अकरोत्, अहं सर्वथा तस्य विरोधं करोमि। अहं भ्रातुः रामस्य समीपं गत्वा तं क्षमां याचितुम् इच्छामि। सः पुनः अयोध्यां गत्वा राज्यं पालयतु इत्यहं तस्य पुरतः प्रार्थनां कर्तुम् इच्छामि। 

भरतस्य वचनानि श्रुत्वा महर्षिः भारद्वाजः अवदत्  भरत! त्वं तु सर्वथा महान् असि। अहं तुभ्यम् आशीर्वादं ददामि यत् त्वं त्रिषु लोकेष्वपि यशस्वी भव। अद्यत्वे रामः, सीतालक्ष्मणाभ्यां सह चित्रकूटे निवसति। त्वं श्वः प्रातःकाले इतः गच्छ, अद्य रात्रौ अत्रैव विश्रमं कुरु।
प्रातःकाले यदा भरतः अनुमतिं नेतुम् ऋषेः भरद्वाजस्य समीपम् अगच्छत् तदा ऋषिः तं प्रबोधयन् अवदत् हे भरत! त्वं तव मातरं प्रति कदापि द्वेषं न कुरु। अत्र तव मातुः मनागपि दोषः नास्ति। कैकेयीद्वारा कृते कार्ये परमात्मनः प्रेरणा अस्ति येन वने स्थितानाम् असुराणां विनाशः रामद्वारा भवेत्।

भरतः ऋषेः भरद्वाजस्य अनुमतिं नीत्वा सर्वैः सह ततः गत्वा  मन्दाकिनीनद्याः तटं प्राप्नोत्। तत्र गत्वा भरतः मन्त्रिणः अवदत् - भोः मन्त्रिणः! एवं प्रतीयते यद् भ्रातुः रामस्य कुटीरः अत्रैव निकटे कुत्रचित् अस्ति। सेनां नीत्वा यदि वयम् अग्रे गच्छेम तर्हि अत्र स्थितानाम् आश्रमवासिनां शान्तिभङ्गः भवेत्, तेषां तपस्यायां च बाधा उत्पन्ना भवेत्। अतः अग्रे अहं सेनां नीत्वा गन्तुं नेच्छामि। हे मन्त्रिणः! भवन्तः गुप्तचरान् प्रेषयित्वा भ्रातुः कुटीरस्य अन्वेषणं कारयन्तु। 
मन्त्रिणः भरतस्य आज्ञया तत् कार्यं कारयितुं चतुरान् गुप्तचरान् अप्रेषयन्। 
*-प्रदीपः!*

No comments:

Post a Comment