*श्रीरामायणकथा, अयोध्याकाण्डम्।*
(एकविंशतिनमो भागः)
भरतशत्रुघ्नयोः प्रत्यागमनम्।
पूर्वरात्रस्य स्वप्नः, अपिच इदानीं प्रातःकाले हि अयोध्यातः दूतानाम् आगमनम् इति विचिन्त्य भरतस्य मनसि इतोपि उद्भूता शङ्का प्रबला अभवत्। किन्तु तद्विषये भरतः वारं वारं पृच्छति चेदपि ते दूताः अशुभसंवादविषये किमपि न अब्रुवन्।
भरतः शत्रुघ्नः च शीघ्रतापूर्वकं महाराजस्य कैकेयस्य अनुमतिं नीत्वा दूतैः सह अयोध्यां प्रति प्रस्थानम् अकुरुताम्।
अनेकनदीः तथा दुर्गमपर्वतान् तीर्त्वा भरतः अयोध्यायाः सीमां प्राविशत्। तत्रत्यं दृश्यं दृष्ट्वा भरतः अब्रवीत् हे दूताः! अयोध्यायाः एतद् उद्यानं जनशून्यं किमर्थम्? नगरे प्रतिदिनं प्रजाजनानां तुमुलनादः भवति स्म, सः नादः किमर्थं न श्रूयते?
एवं किमर्थं प्रतीयते यद् अधुना अयोध्या श्रीहीना अभवत्? किम् अत्र कापि अवाञ्छनीया घटना अभवत्?
दूताः तस्य प्रश्नानां किमपि उत्तरं न अददुः। आशङ्कितः भरतः राजप्रासादं प्राप्नोत्। सः प्रथमं पितुः दर्शनाय तस्य भवनं प्रति अगच्छत्। तत्र तम् अप्राप्य मातुः कैकेय्याः कक्षाम् अगच्छत्। तत्र भरतं दृष्ट्वा स्मितवदना कैकेयी स्वर्णसिंहासनात् उदतिष्ठत्। भरतः मातुः चरणस्पर्शम् अकरोत्। कैकेयी तं हृदयेन सह सङ्क्त्वा तस्मै आशीर्वादान् यच्छन्ती स्वपित्रोः कुशलवार्ताम् अपृच्छत्।
कैकेयस्य कुशलतां ज्ञात्वा अनन्तरं सा अपृच्छत् वत्स! मार्गे तव किमपि कष्टं तु न अभवत्?
मातुः प्रश्नस्य उत्तरम् अदत्त्वा हि भरतः अपृच्छत् मातः! अहं पितुः भवनात् अत्र आगच्छम्। सः तस्मिन् भवने नासीत्। मां वदतु सः कुत्रास्ति?
तटस्थभावेन कैकेयी अवदत् पुत्र! तव तेजस्वी पिता स्वर्गलोकम् अगच्छत्।
कैकेय्याः मुखात् तद् वचनं श्रुत्वा भरतस्य हृदये महान् आघातः अभवत्। सः च रोदिति स्म। पुनः सः अपृच्छत् हे मातः! अकस्मात् एवं कथम् अभवत्? हा हन्त! अहं कियान् दुर्भगः अस्मि यद् अन्तिमे समये तस्य दर्शनमपि कर्तुं न अशक्नवम्।
धन्यौ स्तः रामलक्ष्मणौ यौ अन्तिमे समये पितुः शुश्रूषाम् अकुरुताम्। पितुः अनन्तरम् अधुना भ्राता रामः मम आश्रयः पूज्यः चास्ति। सः कुत्रास्ति? हे मातः! किम् अन्तिमे समये पिता मम स्मरणम् अकरोत्?
मत्कृते तेन कः सन्देशः अदीयत?
भरताय सान्त्वनां यच्छन्ती कैकेयी अवदत् वत्स! तव पिता तव कृते कमपि सन्देशं न अददात्। पञ्च दिनानि यावत् सः हा राम! हा लक्ष्मण! हा सीते! इति उच्चारयन् विलापं करोति स्म। एवमेव विलापं कुर्वन् हि परलोकम् अगच्छत्।
एतत् श्रुत्वा भरतस्य पीडा इतोपि अवर्धत। सः च अपृच्छत् - किं पितुः अन्तिमे समये भ्राता रामः अपि नासीत्? किं तस्य वियोगात् पिता स्वीयान् प्राणान् अत्यजत्? सः कुत्र अगच्छत्?
कैकेयी हसन्ती अब्रवीत् पुत्र! तव ज्येष्ठः भ्राता रामः, लक्ष्मणः सीता च वल्कलं धृत्वा वनम् अगच्छन्। अहं त्वां सर्वं वृत्तान्तं श्रावयामि।
तव पिता रामस्य राज्याभिषेकस्य निर्णयम् अकरोत्। रामस्य राज्याभिषेकस्य वार्तां श्रुत्वा अहं महाराजं वरद्वयम् अयाचे।
*-प्रदीपः!*
No comments:
Post a Comment