Tuesday, February 20, 2024

Srimad Ramayana Ayodhya kanda part 19a in sanskrit

*श्रीरामायणकथा, अयोध्याकाण्डम्।*
(ऊनविंशतितमो भागः)
श्रवणकुमारस्य कथा।
(द्वितीयः खण्डः)

तयोः दशां दृष्ट्वा मम इतोपि हृदयं विदीर्णम् अभवत्। मम शब्दं प्राप्य तस्य पिता अवदत् पुत्र श्रवण! एतावान् विलम्बः किमर्थम् अभवत्? आदौ तव मात्रा जलं पायय, यतः सा पिपासया अत्यन्तं व्याकुला अस्ति।
श्रवणस्य पितुः वचनं श्रुत्वा अहं भीतः सन् अवदं हे मुने! अहम् अयोध्यायाः राजा दशरथः अस्मि। अहम् अन्धकारस्य कारणात् भ्रमेण गजं मत्वा भवतः निरपराधं पुत्रम् अहनम्। 
अज्ञानवशात् मया कृतापराधात् अहम् अत्यन्तं व्यथितः अस्मि। भवान् मह्यं दण्डं ददातु। 

पुत्रस्य मृत्योः वार्तां श्रुत्वा  उभावपि विलापं कर्तुम् आरभेताम्। तस्य पिता विलापं कुर्वन् वदति स्म- मम मनः कथयति यद् इदानीमेव तुभ्यं शापं दत्त्वा भस्मसात् कुर्याम्, किन्तु त्वं स्वयम् आगत्य स्वीयम् अपराधं स्व्यकरोः। अतः अहम् एवं न करिष्यामि। इदानीं त्वम् आवां नीत्वा मम पुत्रस्य समीपं चल। श्रवणस्य समीपं यदा वयम् अगच्छाम तदा तौ हस्ताभ्यां श्रवणस्य स्पर्शं कृत्वा  हृदयविदारकं विलापं कर्तुम् आरभेताम्। स्वपुत्राय तौ जलाञ्जलिं प्रदाय अनन्तरं तस्य पिता माम् अवदत्  हे राजन्! पुत्रवियोगात् यथा आवयोः मृत्युः भविष्यति तथा तवापि पुत्रवियोगात् महत् कष्टं प्राप्य मृत्युः भविष्यति। शापं दत्त्वा अनन्तरं तौ मृतपुत्रस्य कृते चितां निर्माय तस्यां चितायां तौ अपि उपविश्य पुत्रेण सह स्वीयान् प्राणान् अत्यजताम्। 

हे कौशल्ये! मम तस्य पापकर्मणः दण्डम् इदानीं प्राप्नोमि।
*-प्रदीपः।*

No comments:

Post a Comment