Wednesday, February 21, 2024

Srimad Ramayana Ayodhya kanda part 21a in sanskrit

*श्रीरामायणकथा, अयोध्याकाण्डम्।*
(एकविंशतिनमो भागः)
भरतशत्रुघ्नयोः प्रत्यागमनम्।
(द्वितीयः खण्डः)

प्रथमं वरं तव कृते अयोध्यायाः राजसिंहासनम् अयाचे, द्वितीयं वरं च रामस्य कृते चतुर्दशवर्षाणां वनवासम् अयाचे। रामेण सह लक्ष्मणः सीता च स्वेच्छया वनम् अगच्छताम्। तेषां गमनात् परं तव पिता विलापं कुर्वन् मृत्युं प्राप्नोत्। इदानीम् एतद् राज्यं तव अस्ति। अतः शोकं त्यक्त्वा निष्कण्टकः सन् राज्यं पालय। तव विरुद्धे विद्रोहं कुर्वाणः कश्चिदपि अस्मिन् नगरे इदानीं नास्ति। अहं सम्पूर्णां व्यवस्थाम् अकरवम्।

त्वं गुरुं वसिष्ठं मन्त्रिणः च आहूय स्वीयं राज्याभिषेकं कारय। 
रामलक्ष्मणयोः वनवासस्य विषयं ज्ञात्वा पितुः च मृत्योः कारणं ज्ञात्वा भरतस्य मनः व्यथया पूर्णम् अभवत्, तस्य शरीरं च क्रोधेन ज्वलति स्म। सः अवदत् हे पापिनि मातः! भवती रघुकुलस्य कलङ्किनी अस्ति। मम भ्रात्रोः वनवासस्य पितुः मृत्योः च कारणं भवती एव। भवती रघुकुलस्य नाशं कुर्वती नागिनी अस्ति।

हे विवेकहीने! भवती रामं किमर्थं वनम् अप्रेषयत्? अहं तु एवं चिन्तयामि यत् पितृवद् माता कौशल्या माता सुमित्रा च पतिपुत्रयोः वियोगात् स्वीयान् प्राणान् त्यक्ष्यतः। भ्राता रामः तु मत्तः भवत्याः अधिकं सम्मानं करोति स्म। माता कौशल्या तु भगिनीवद् भवत्यां स्निह्यति स्म। पुनः भवती किमर्थम् एतावन्तं महान्तम् अन्यायम् अकरोत्? 

हे निष्ठुरमातः! यः भ्राता कदापि दुःखं न अपश्यत्, या च भ्रातृजाया कदापि दुःखं न अपश्यत्, ताभ्याम् एतावन्तं कठोरं दण्डं प्रदाय भवती किं प्राप्नोत्?
भ्रातुः रामस्य वियोगात् अहं क्षणमपि स्थातुं न शक्नोमि। किं भवती एतदपि न जानाति यत्  सद्गुणेषु अहं भ्रातुः रामस्य चरणयोः धूलेः समानोऽपि नास्मि। भवती मां कलङ्कितम् अकरोत्।

अहं क्षणाभ्यन्तरे हि भवत्याः परित्यागम् अकरिष्यं किन्तु भवत्याः उदरात् जन्म अलभे अतः एवमपि कर्तुं न शक्नोमि।
अस्तु, अहं भवत्याः परित्यागं कर्तुं न शक्नोमि, एतेन किम्! स्वीयान् प्राणान् तु त्यक्तुं शक्नुयाम् एव। अहं विषं पास्यापि अथवा वने भ्रातुः रामस्य अन्वेषणं कुर्वन् प्राणान् त्यक्ष्यामि। एतद् भवती कथं व्यस्मरत् यद् इक्ष्वाकुकुले सर्वदा ज्येष्ठपुत्रः राज्यं पालयति? अहम् इदानीमेव वनं गमिष्यामि। भ्रातरं रामम् आनीय तस्मै तस्य सिंहासनं प्रदास्यामि।

एवमुक्त्वा रुदन् भरतः शत्रुघ्नेन सह मातुः कौशल्यायाः भवनम् अगच्छत्। 
भरतः शत्रुघ्नः च मातुः कौशल्यायाः चरणस्पर्शम् अकुरुताम्। भरताय आशीर्वादं यच्छन्ती राज्ञी कौशल्या अवदत् वत्स! 
एतत्तु उत्तमं यत् त्वं राज्यम् अलभथाः किन्तु निर्दोषरामाय वनवासं दत्त्वा तव माता किं प्राप्नोत्? अहं निश्चयम् अकरवं यत् तव राज्याभिषेकात् परम् अहमपि वनं गमिष्यामि।

मातुः कौशल्यायाः वचनानि श्रुत्वा भरतः रुदन् अवदत् हे मातः! भवती मह्यं किमर्थं दोषं ददाति? अत्र यत्किमपि वा अभवत् तत् सर्वं मम अनुपस्थितौ अभवत्। भ्रातुः वियोगात् मम हृदयं विदीर्णं भवति। तेन विना अयोध्यां तु त्यजतु, यदि त्रैलोक्यस्य राज्यमपि कश्चिद् मह्यं ददाति तर्हि अपि अहं तन्न स्वीकरोमि। भ्रातुः रामस्य   वनगमने यदि मम लेशमात्रमपि सहमतिः स्यात् तर्हि अहं नरकं प्राप्नुयाम्।

यदि अस्मिन् दुष्कार्ये मम सहमतिः स्यात् तर्हि मत्कृते सः दण्डः भवतु यः दण्डः महत् पापं कुर्वते पापिने दीयते। 
एवम् कथयन् रुदितः भरतः मूर्छितः भूत्वा मातुः कौशल्यायाः चरणयोः अपतत्। 
यदा सः चैतन्यं प्राप्नोत् तदा कौशल्या तम् अवदत् पुत्र! एवं प्रकारेण कथाम् उक्त्वा त्वं मां किमर्थं दुःखितां करोषि? किम् अहं तव हृदयं न अभिजानामि? राज्ञी कौशल्या एवं भरताय नानाप्रकारेण सान्त्वनां प्रयच्छति स्म। 
*-प्रदीपः!*

No comments:

Post a Comment