*श्रीरामायणकथा, अयोध्याकाण्डम्।*
(विंशतितमो भागः)
राज्ञः दशरथस्य मृत्युः।
श्रवणकुमारस्य वृत्तान्तं सर्वं श्रावयित्वा अनन्तरं राजा दशरथः अब्रवीत् कौशल्ये! मम अन्तिमः समयः सन्निहितः अस्ति। इदानीम् अहं मम नेत्राभ्यां किमपि द्रष्टुं न शक्नोमि। रामं पुनः कदापि द्रष्टुं न शक्ष्यामि। मम सर्वाणि इन्द्रियाणि मां त्यक्त्वा गच्छन्ति। मम चेतना शनैः शून्या भवति। हा राम! हा लक्ष्मण! हा पुत्र! हा सीते! हा कुलघातिनि कैयेयि!
एवं कथयतः राज्ञः दशरथस्य वाणी स्तब्धा अभवत्, तस्य प्राणाः च शरीरं त्यक्त्वा अगच्छन्।
यदा तस्य मृत्युः अभवत् तदा राज्ञी कौशल्या भूमौ पतित्वा विलापं कुर्वती रोदिति स्म। राज्ञी सुमित्रा अन्याः स्त्रियः अपि विलापं कुर्वत्यः रुदन्ति स्म। समस्ते अन्तःपुरे करुणक्रन्दनं गुञ्जति स्म। राज्ञी कौशल्या रोदनं कुर्वती मूर्छिता अभवत्।
सदैव सुखसमृद्धादिभिः पूर्णः राजप्रासादः हठात् शोकस्य आलयः अभवत्।
चैतन्यं प्राप्य राज्ञी कौशल्या तस्याः मृतपत्युः शिरः ऊरौ स्थापयित्वा विलापं कुर्वती अवदत् हा दुष्टा कैकेयि! तव कामना पूर्णा अभवत्। इदानीं त्वं सुखपूर्वकं राज्यसुखं भुङ्क्ष्व। पुत्रात् तु अहं पूर्वं हि पृथग् अभवम्, अद्य पतिः अपि मां त्यक्त्वा अगच्छत्। अधुना मम कृते जीवनं व्यर्थम्। कैकेयस्य राजकुमारी अद्य कोशलस्य नाशम् अकरोत्। मम पुत्रौ पुत्रवधूः च असहायाः भूत्वा वने विचरन्ति। अयोध्यापतिः तु अस्मान् त्यक्त्वा अगच्छत्, इदानीं मिथिलापतिः अपि सीतायाः दुःखेन दुःखी भूत्वा अधिककालं यावत् जीवितः न भवेत्। हा कैकेयि! त्वं कुलद्वयस्य नाशम् अकरोः।
राज्ञी कौशल्या महाराजस्य मृतशरीरेण सह सङ्क्त्वा पुनः मूर्छिता अभवत्। परेद्यवि रुदन्तः मन्त्रिणः राज्ञः दशरथस्य मृतशरीरं तैलकुण्डे अस्थापयन्। रामस्य वियोगात् सन्तप्ताः अयोध्यावासिनः महाराजस्य मृत्योः सूचनां प्राप्य इतोपि दुःखिताः अभवन्।
राज्ञः मृत्योः सूचनां प्राप्य व्यथिताः सर्वे मन्त्रिणः, मार्कण्डेयः, मौद्गलः, वामदेवः, कश्यपः तथा च जाबालिः ऋषेः वसिष्ठस्य आश्रमे एकत्रिताः अभवन्। ते ऋषिं वसिष्ठम् अवदन् हे महर्षे! राजसिंहासनं रिक्तं न भवेत्, अतः कमपि रघुवंशिनं सिंहासनाधीनं कारयतु। शीघ्रातिशीघ्रम् अयोध्यायाः सिंहासनं सुरक्षितं स्थापयितुं प्रबन्धं करोतु। अन्यथा कस्यचित् शत्रोः मनसि अयोध्यायाम् आक्रमणं कर्तुं विचारः उत्पद्येत।
ऋषिः वसिष्ठः अब्रवीत्, भवतां कथनं सर्वथा सत्यम्। स्वर्गीयमहाराजेन भरतः राज्यस्य उत्तराधिकारी घोषितः अभवत्, अतः अहं भरतं तस्य मातुलगृहात् आनाययितुम् इदानीमेव कांश्चन कुशलदूतान् प्रेषयामि।
*-प्रदीपः!*
No comments:
Post a Comment