Thursday, February 15, 2024

Srimad Ramayana Ayodhya kanda part 15a in sanskrit

*श्रीरामायणकथा, अयोध्याकाण्डम्।*
(पञ्चदशो भागः)
ऋषेः भरद्वाजस्य आश्रमः।
(द्वितीयः खण्डः)

एवमेव रात्रिः व्यतीता। सूर्योदयात् प्राक् श्रीरामः लक्ष्मणः सीता च सन्ध्यावन्दनादिकं कृत्वा  त्रिवेणीसङ्गमं प्रति प्रस्थानम् अकुर्वन्। मार्गे लक्ष्मणः वृक्षेभ्यः कानिचन स्वादिष्टफलानि चित्वा रामाय सीतायै च अददात्, स्वस्य कृते चापि एकं फलम् अस्थापयत्।  
सन्ध्यावेलायां ते गङ्गायमुनयोः सङ्गमस्थलं प्राप्नुवन्। 

किञ्चित् समयं यावत् ते सङ्गमस्थलस्य रमणीयदृश्यम् अपश्यन्, तदनन्तरं रामः लक्ष्मणम् अब्रवीत् लक्ष्मण! अद्यतनीया यात्रा अस्मान् महातीर्थं प्रयागराजं प्रापयत्।  
यज्ञकुण्डात् उद्धृतां धूमरेखां दृष्ट्वा एवं प्रतीयते यद् अग्निदेवः स्वयं ध्वजम् उत्तोलयति। यज्ञात् उत्पन्नस्य धूमस्य स्वास्थ्यवर्द्धकसुगन्धेन  सम्पूर्णं वायुमण्डलम् आपूरितं भवति। एतद् दृष्ट्वा एवं प्रतीयते यद् वयं महर्षेः भरद्वाजस्य आश्रमं प्राप्नुमः। 

सङ्गमस्य तस्मिन् पवित्रे स्थले गङ्गायाः यमुनायाः च जलं कल-कल-नादेन प्रवहति स्म। अनतिदूरे हि महर्षेः भरद्वाजस्य आश्रमः आसीत्। आश्रमस्य अन्तः प्रविश्य रामः ऋषेः भरद्वाजस्य अभिवादनं कुर्वन् अवदत् हे महामुने! अयोध्यापति-महाराज-दशरथस्य पुत्रौ रामलक्ष्मणौ भवन्तं सादरं प्रणमतः। भगवन्! पितुः आज्ञया अहं चतुर्दशवर्षं यावत् वने वस्तुम् आगच्छामि। एषः मम अनुजः लक्ष्मणः, सा च मम पत्नी मिथिलानरेशस्य जनकस्य पुत्री सीता। 

तेषां हार्दिकसत्कारं कृत्वा उपवेशनाय आसनानि प्रदाय अनन्तरम् ऋषिः भरद्वाजः तेषां कृते स्नानादिकस्य व्यवस्थां कृत्वा भोजनाय तेभ्यः फलानि अददात्। 
पुनः ऋषिः भरद्वाजः अब्रवीत् मया ज्ञातं यद् महाराजः दशरथः निरपराधिने तुभ्यं वनवासम् अददात्, त्वं च  मर्यादायाः रक्षणाय वनवासं सहर्षं स्व्यकरोः। यूयं चतुर्दशवर्षं यावत् अस्मिन् आश्रमे  निश्चिताः भूत्वा वस्तुं शक्ष्यथ। एतत् स्थानम् अत्यन्तं रमणीयं विद्यते।

रामः अवदत् निःसन्देहं भवतः एतत् स्थानम् अत्यन्तं रमणीयं सुखदं च विद्यते परन्तु अहम् अत्र वस्तुं नेच्छामि, यतः भवतः आश्रमस्य गरिम्नः कारणात् आश्रमोऽयं दूर-दूर-पर्यन्तं विख्यातः अस्ति। यदि अहम् अत्र निवसेयं तर्हि अयोध्यावासिनः एतस्य सूचनाम् अवश्यं प्राप्स्यन्ति, ते च अत्रापि आगमिष्यन्ति। एवं भवेत् चेत् अस्माकं तपस्यायां बाधा भवेत्। तस्मात् भवतः अपि समस्या भविष्यति। अत एव कृपया भवान् अन्यस्य स्थानस्य विषये सूचयतु यत् स्थानं निर्जनं स्यात्, अपिच तस्मिन् स्थाने सीतायाः मनः रमेत। 

रामस्य तर्कयुक्तं वचनं श्रुत्वा ऋषिः भरद्वाजः अब्रवीत् यदि तव एवं विचारः तर्हि त्वं चित्रकूटं गत्वा निवासं कुर्याः। तत् स्थानम् इतः दशमायिलमिते दूरे अस्ति। तस्मिन् पर्वते अनेके ऋषिमुनयः तथा तपस्विनः स्वीयं कुटीरं निर्माय तपस्यां कुर्वन्ति। तत् स्थानमपि अत्यन्तं रमणीयं विद्यते। पुनः वानराः, अन्ये वन्यपशवः च तस्य स्थानस्य शोभां वर्धयन्ति। चित्रकूटस्य इयमेव महती विशेषता यत् तत्र अनेके ऋषयः मुनयः च तपस्यां कृत्वा मोक्षं प्राप्नुवन्। 
महर्षिः भारद्वाजः तस्य प्रदेशस्य विषये इतोपि विस्तरेण रामम् अवदत्। तदानीं  रात्रिः अभवत् इति कारणतः ते त्रयः अपि महर्षेः भरद्वाजस्य आश्रमे विश्रमम् अकुर्वन्। 
*-प्रदीपः!*

No comments:

Post a Comment