*श्रीरामायणकथा, अयोध्याकाण्डम्।*
(षोडशो भागः)
चित्रकूटं प्रति प्रस्थानम्।
परेद्यवि प्रातःकाले सन्ध्योपासनादिभ्यः निवृत्ताः भूत्वा रामः, लक्ष्मणः सीता च चित्रकूटं प्रति प्रस्थानम् अकुर्वन्। ते गत्वा यमुनानद्याः तटं प्राप्नुवन्। चित्रकूटं प्राप्तुं यमुनायाः उत्तरणम् आवश्यकम् आसीत्। यमुनायाः जलं वेगेन प्रवहति स्म। यमुनायाः प्रचण्डप्रवाहं दृष्ट्वा सीता भीता अभवत्। सा अचिन्तयत् कथमहम् एतां नदीम् उत्तराणि? अत्र तु काचिदपि नौका न दृश्यते।
यमुनायाः तरङ्गाः वारं वारम् उत्पतन्ति इति दृष्ट्वा एवं प्रतीयते यत् ते आकाशं स्पृशेयुः इति। तां स्थितिं दृष्ट्वा किञ्चित् समयं यावत् रामः लक्ष्मणः च परस्परं विचारविमर्शम् अकुरुताम्।
अनन्तरं लक्ष्मणः वनात् वंशः, काष्ठं लता च इत्यादीनि आनयत्। सः वंशैः सह काष्ठानि लतया बद्ध्वा एकां नौकां निरमात्।
तस्यां नौकायां सीतायै एकम् आसन्दमपि निरमात्।
पुनः सः (लक्ष्मणः) तां नौकां यमुनायाः जले अपातयत्। रामचन्द्रः सीतां हस्ताभ्याम् उन्नीय तस्यां नौकायाम् उपावेशयत्। ततः परं रामः लक्ष्मणः च तां नौकाम् आरुह्य यमुनाम् उत्तरितुम् उद्यताः अभवन्। नौका यदा नद्याः मध्यभागं प्राप्नोत् तदा जलस्य तरङ्गेषु दोलायमाना अभवत्। तस्यां स्थितौ जानकी आकाशं प्रति पश्यन्ती परमात्मनः प्रार्थनां करोति स्म, हे परमेश्वर! अस्मान् कुशलतापूर्वकं नद्याः पारं प्रापयतु।
अहं प्रतिज्ञां करोमि यद् वनवासस्य अवधिं समाप्य पुनः आगत्य
अत्र यज्ञं करिष्यामि।
किञ्चित् कालानन्तरं हि कामपि बाधां विना नौका यमुनायाः अपरं तटं प्राप्नोत्। नौकां यमुनायाः तटे हि त्यक्त्वा ते त्रयः एकस्य महतः अश्वत्थवृक्षस्य अधः विश्रमं कर्तुम् उपाविशन्। तत्र किञ्चिद् विश्रमं कृत्वा अनन्तरं ते चित्रकूटं प्रति प्रस्थानम् अकुर्वन्।
चलित्वा चलित्वा ते तत् स्थानं प्राप्नुवन् यत्र मयूराः स्वमधुरध्वनिना सम्पूर्णं वातावरणम् आह्लादितं कुर्वन्ति स्म। वानराः सम्भूय वृक्षाणां शाखासु कूर्दन्ते स्म। भगवान् भास्करः शनैः अस्तं गच्छति स्म। सूर्यस्य रक्तवर्णैः किरणैः पर्वतानां शिखराणि स्वर्णवद् दृश्यन्ते स्म।
क्षणाभ्यन्तरे हि सूर्यदेवः अस्तं गतः। चतसृषु दिक्षु अन्धकारः व्याप्तः अभवत्। सीतालक्ष्मणयोः सहमतौ रामः तत्रैव विश्रमं कर्तुं निर्णयम् अकरोत्। अतीव रमणीयं तत् स्थानं यमुनायाः समतले तटे स्थितम् आसीत्।
ते सर्वे यमुनायाः जले स्नानं कृत्वा तटे हि सन्ध्योपासनाम् अकुर्वन्। ततः परं लक्ष्मणः सीतारामयोः कृते तृणशय्यायाः निर्माणं कृत्वा तत्रैव रात्रौ विश्रमम् अकुर्वन्।
*प्रदीपः!*
No comments:
Post a Comment