Thursday, February 15, 2024

Srimad Ramayana Ayodhya kanda part 15 in sanskrit

*श्रीरामायणकथा, अयोध्याकाण्डम्।*
(पञ्चदशो भागः)
ऋषेः भरद्वाजस्य आश्रमः।

निषादराजः गुहः यदा ततः अगच्छत् तदा रामः लक्ष्मणम् अब्रवीत् हे सौमित्र! पुरतः यद् वनं दृश्यते इदानीं वयं तस्मिन् निर्जने वने प्रवेक्ष्यामः। एवमपि भवितुम् अर्हति यद् अस्मिन् वने वयं नानाप्रकार-भयङ्करस्थितीः सम्मुखीकुर्याम। कश्चिदपि भयङ्करप्राणी कस्मिंश्चिदपि समये आगत्य अस्माकम् उपरि आक्रमणं कर्तुं शक्नुयात्। अतः त्वम् अग्रे अग्रे गच्छ। तव पृष्ठतः सीता चलिष्यति। युवयोः रक्षां कुर्वन् अहं युवयोः पृष्ठतः चलिष्यामि। सम्यग् अवगच्छ यद् वयमत्र आत्मनिर्भराः भूत्वा स्वयं हि स्वस्य रक्षां कुर्याम।

 श्रीरामस्य आज्ञानुसारं लक्ष्मणः धनुर्बाणैः सज्जः भूत्वा अग्रे अग्रे गच्छति स्म, सीता तस्य पृष्ठतः गच्छति स्म। तयोः अनुसरणं कुर्वन् रामः तयोः पृष्ठतः गच्छति स्म।  वने अटित्वा अटित्वा ते त्रयः अपि वत्सदेशं प्राप्नुवन्। दीर्घकालं यावत् यात्रां कृत्वा कोमलाङ्गिनी सीता श्रान्ता अभवत् इति विचिन्त्य ते विश्रमं कर्तुम् एकस्य वृक्षस्य अधः अतिष्ठन्।

सन्ध्याकालः समागतः। अतः ते तत्समये संध्योपासनादिकं नित्यकर्म समाप्य वने उपलभ्यमानैः पदार्थैः स्वीयां क्षुधाम् अशमयन्।
शनैः शनैः रात्रिः अभवत्। रामः लक्ष्मणम् अब्रवीत् भ्रातः लक्ष्मण! अस्मिन् निर्जने वने अद्य अस्माकं प्रथमा रात्रिः अस्ति। जानक्याः रक्षणस्य दायित्वम् आवयोः उपरि अस्ति, अतः त्वं सिंहवद् निर्भयेण सतर्कः भूत्वा तिष्ठ। ध्यानेन शृणु, अनतिदूरे नानाप्रकार-हिंस्रप्राणिनां नादः श्रूयते। कस्मिंश्चिदपि समये ते अस्मान् प्रति आगत्य अस्माकम् उपरि आक्रमणं कर्तुं शक्ष्यन्ति।  अतः हे वीर शिरोमणि! त्वं कथञ्चिदपि असावधानेन मा भूः। 

पुनः विषयं परिवर्त्य रामः अब्रवीत्- अद्य पिता अयोध्यायां यावान् दुःखितः स्यात् माता कैकेयी तावती आनन्दिता भवेत्। स्वीयं पुत्रं राजसिंहासनं प्रापयितुं माता कैकेयी किमपि वा कर्तुं शक्नुयात्। मम मनसि आशङ्का उत्पद्यते यत् सा छलेन पितुः प्राणान् न हरेत्। धर्मात् पतितः लोभेन वशीभूतः मनुष्यः किं न कर्तुं शक्नुयात्।  ईश्वरः एव रक्षेत्, अन्यथा वृद्धा माता कौशल्या अपि पितुः वियोगात् अस्माकं च वियोगात् स्वीयान् प्राणान् त्यजेत्। 

एतम् अन्यायं दृष्ट्वा मम हृदये अवर्णनीया वेदना भवति। मनः इच्छति यत् तेषां निरीहवृद्धप्राणिनां जीवनस्य रक्षणाय सम्पूर्णाम् अयोध्यापुरीं बाणेन भिन्द्याम्, परन्तु मम धर्मः एतस्मात् निवारयति। सत्यं वदामि यद् अहम् अद्य महान् दुःखितः अस्मि। एवं कथयतः रामस्य कण्ठः अवरुद्धः अभवत्। सः च तूष्णीं भूत्वा अश्रुपूरितनेत्राभ्यां पृथिवीं पश्यति स्म। 

एवं प्रकारेण दुःखितं रामं दृष्ट्वा लक्ष्मणः धैर्येण अवदत् हे आर्य! इत्थं भवता शोकः न करणीयः। एवं भवतः कृते न शोभते। भवन्तं दुःखितं दृष्ट्वा भ्रातृजाया अपि दुःखिता भवेत्। अतः भवान् धैर्यं धरेत्।महति सङ्कटे अपि भवान् कदापि धैर्यं न अत्यजत्, पुनः अद्य किमर्थं भवान् अधीरः भवति? एतदेव उचितं यद् वयं कालस्य गतिं पश्येम अनुभवेम, तदनुसारं च वयं कार्यं कुर्याम।

मम विश्वासः अस्ति यद् निर्विघ्नेन वयं वनवासस्य अवधिं समाप्य कुशलतापूर्वकं पुनः अयोध्यां गत्वा शान्त्या जीवनं यापयेम। 
तृणशय्यायां शयित्वा यदा रामः निद्रामग्नः अभवत् तदा लक्ष्मणः निर्भयः सन् धनुर्बाणैः सज्जः भूत्वा रात्रौ जागरित्वा सीतारामयोः रक्षणे निमग्नः अभवत्।
*-प्रदीपः!*

No comments:

Post a Comment