*श्रीरामायणकथा, अयोध्याकाण्डम्।*
(चतुर्दशो भागः)
गङ्गानद्याः उत्तरणम्।
(द्वितीयः खण्डः)
एवं प्रकारेण यदा मन्त्री सुमन्तः दीनवचनानि उक्त्वा वारं वारं याचनं करोति स्म तदा श्रीरामः प्रेमपूर्वकम् अब्रवीत् भ्रातः सुमन्त! मां प्रति भवतः या उत्कृष्टा भक्तिः अस्ति ताम् अहं सम्यक् जानामि। किन्तु यदि भवान् अयोध्यां न प्रतिगच्छति तर्हि मातुः कैकेय्याः मनसि शङ्का उत्पद्येत। सा अवगमिष्यति यद् वयं चातुर्येण राज्ये हि कुत्रचित् निगूढाः स्मः इति। अतः मम अनुरोधः यद् भवान् अयोध्यां प्रतिगच्छतु।
तत्र भवन्तं दृष्ट्वा मातुः कैकेय्याः शङ्का समाप्ता भवेत् अपिच महाराजस्य अपि कलङ्कः न भवेत्। कलङ्कः मृषा वा भवतु, तस्य प्रतिक्रिया महती व्यापिका भवति। इत्थं श्रीरामः बहुधा बोधयित्वा मन्त्रिणं सुमन्तम् अयोध्याम् अप्रेषयत्। अश्रुपूरितः सुमन्तः रथम् आरुह्य अयोध्यां प्रति प्रस्थानम् अकरोत्।
सुमन्तस्य गमनात् परं रामः निषादराजम् अब्रवीत् हे निषादराज! कृपया भवान् अस्मभ्यं निर्यासम् आनाय्य ददातु, यतः इदानीं वयं वनवासिनः तपस्विनः च अभूम। वयं जटां धृत्वा तपःधर्मस्य मर्यादायाः पालनं कुर्वन्तः निर्जने स्थाने निवासं कुर्याम।
श्रीरामस्य वार्तां श्रुत्वा निषादराजः स्वयं गत्वा निर्यासम् आनयत्, रामः, सीता, लक्ष्मणः च तेन निर्यासेन जटां निर्माय नियमपूर्वकं तपःधर्मं स्वीकुर्वन्तः गङ्गानदीम् उत्तरितुम् उद्यताः अभवन्। नौकाम् आरुह्य ते त्रयः कलुषहारिणीं गङ्गाम् उदतरन्। गङ्गानदीम् उत्तीर्य रामः निषादराजं गुहं हृदयेन असजत्। पुनः तस्य स्नेहपूर्ण-आतिथ्यस्य कृते रामः भूरि भूरि प्रशंसां कुर्वन् तं ततः अप्रेषयत्।
*-प्रदीपः!*
No comments:
Post a Comment