*श्रीरामायणकथा, अयोध्याकाण्डम्।*
(त्रयोदशो भागः)
निषादराजः गुहः।
(द्वितीयः खण्डः)
एतानि उत्तमानि खाद्यवस्तूनि राजा-महाराजानां कृते सन्ति। इदानीं तु वयं तपस्विनः अभूम। अस्माकं भोजनं तु केवलं कन्द-मूल-फलादिकं हि वर्तते। अतः वयम् एतानि स्वीकर्तुं न शक्नुमः। परन्तु अश्वानां कृते यानि खाद्यवस्तूनि आनयत् तानि स्वीकृत्य अहं हर्षम् अनुभवामि यतः अश्वाः मम पितुः प्रियाः, येषां सर्वदा विशेषः यत्नः क्रियते।
राजा गुहः अश्वानां विशेषप्रबन्धं कर्तुं तस्य प्रजाजनान् आदिशत्। सायंकाले रामः, सीता, लक्ष्मणः च गङ्गायां स्नानं कृत्वा ईश्वरोपासनायाः परं कन्द-मूल-फलादिकम् अखादन्।
राजा गुहः विश्रमाय तान् सर्वान् कुटीरम् अनयत् यं कुटीरं सः स्वयं प्रेमपूर्वकं निरमात्। कुटीरं प्राप्य निषादराजः अवदत् हे दशरथनन्दन! भवान् एतस्यां शय्यायां विश्रमं करोतु। अहं भवतः सेवकः अस्मि। अतः अहं रात्रौ जागरित्वा हिंस्रपशुभ्यः भवतां रक्षणं करिष्यामि यतः भवान् मम सर्वाधिकः प्रियः अस्ति। भवतां रक्षणाय एते मम बान्धवाः अस्त्रशस्त्रैः सुसज्जिताः सन्ति।
निषादराजस्य वचनं श्रुत्वा लक्ष्मणः अवदत् हे गुहराज! भवतः शक्त्यां निष्ठायां भ्रातरं रामं प्रति च भवतः अनन्यप्रेम्णि मम पूर्णविश्वासः अस्ति। निःसन्देहः भवतः राज्ये अस्माकं काचिदपि विपत्तिः न भवेत्। किन्तु अहं भ्रातुः रामस्य दासः अस्मि, अतः अहं तेन सह शयितुं न शक्नुयाम्। अहमपि भवता सह रात्रौ जागरित्वा स्वीयं कर्तव्यं पालयिष्यामि।
निषादराजः लक्ष्मणः च कुटीरात् बहिः एकस्यां शिलायाम् उपविश्य रक्षणं कुर्वन्तौ उभावपि वार्तालापं कुरुतः स्म। अयोध्यायां सङ्घटितानां समस्तघटनानां विवरणं लक्ष्मणः निषादराजम् अश्रावयत्। एवमेव तेषां सर्वेषां रात्रियापनम् अभवत्।
*-प्रदीपः!*
No comments:
Post a Comment