*श्रीरामायणकथा, अयोध्याकाण्डम्।*
(द्वादशो भागः)
वनं प्रति गमनम्।
तमसानदीं तीर्त्वा रथः तीव्रगत्या गच्छति स्म। तीव्रगत्या धावन् रथः वेदश्रुतिनद्याः तटं प्राप्नोत्। तस्याः नद्याः जलम् अतीव निर्मलम् आसीत्। तां नदीं तीर्त्वा रथः दक्षिणदिशि गच्छति स्म। रथः गत्वा तत् स्थानं प्राप्नोत् यत्र समुद्रगामिनी गोमती नदी प्रवाहिता भवति स्म।
तस्याः नद्याः उभये तटे गावः हरितानि तृणानि चरन्ति स्म।
गोमतीनदीं तीर्त्वा रथः मयूरहंसानां कलरवेण व्याप्तां स्यन्दिकानदीमपि उदतरत्।
तत् क्षेत्रं धनधान्यादिभिः सम्पन्नं बहुभिः जनपदैः वेष्टितम् आसीत्। रामः सीताम् अवदत् हे प्रिये! पुराकाले एतत् क्षेत्रं राजा मनुः इक्ष्वाकवे अददात्।
शीघ्रगामिनः अश्वाः रथं नीत्वा विशाल-रमणीय-कोशलदेशस्य सीमाम् अगच्छन्। सीमां तीर्त्वा रामः रथात् अवतीर्य अयोध्यां प्रति मुखं कृत्वा श्रद्धापूर्णवचनैः वदति स्म- सूर्यकुलस्य सत्यवादिभिः नरेशैः स्नेहपूर्वकं परिपालिता अयोध्या नगरी! हे अयोध्यानगरि! विवशः भूत्वा अद्य अहं दीर्घकालाय त्वत् पृथग् अभवम्। हे जन्मभूमे! मम दृष्ट्या त्वं सर्वदा स्वर्गादपि श्रेष्ठा पूजनीया च विद्यसे। तव सेवा हि मम गौरवम्, किन्तु परिस्थितिवशात् अद्य तव सेवातः वञ्चितः अभवम्। हे जननि! त्वं सर्वदा हि मत्कृते प्रेरणादायिनी आसीः।
तव धूलिः चन्दनवद् मह्यं शान्तिं ददाति स्म। तव जलं मत्कृते अमृतं जीवनं च अवर्तत। अहं त्वत् पृथग् अभवम् इति कारणतः मम हृदयं विदीर्णम् अभवत्। पितुः आज्ञायाः पालनं कृत्वा चतुर्दशवर्षाणाम् अनन्तरम् अहं पुनः तव दर्शनस्य सेवायाः च सौभाग्यं लब्धाहे। तावत् हे मातः! मह्यम् आज्ञां देहि।हे मातः! तुभ्यं कोटिशः प्रणामाः।
एवमुक्त्वा श्रीरामः अयोध्याप्रदेशस्य धूलिं ललाटे अधरत्। तस्य नेत्राभ्याम् अश्रूणि प्रवहन्ति स्म, किन्तु आत्मानं सम्भालयित्वा पुनः रथे उपाविशत्।
*-प्रदीपः!*
No comments:
Post a Comment