Sunday, January 22, 2023

Srimad ramayanam in Sanskrit bAla kAndam part 12

Courtesy:. Sri. Pradeep Kumar Nath
*श्रीरामायणकथा बालकाण्डम्।*
(द्वादश भागः)
जनकपुरीं प्रति गमनम्।
(द्वितीयः खण्डः)

 पुनः रामं लक्ष्मणं च दृष्ट्वा राजा जनकः अपृच्छत् हे मुनिवर! भवता सह एतौ परमतेजस्विनौ द्वौ कुमारौ कौ? तयोः वीरतापूर्णाम् आकृतिं दृष्ट्वा एवं प्रतीयते यत् तौ कस्यचन राजकुलस्य द्वौ दीपकौ स्तः।
एवं सुन्दरयोः सुदर्शनकुमारयोः उपस्थितौ इयं यज्ञशाला शोभायमाना अभवत् यथा प्रातःकाले भगवान् भास्करः यदा पूर्वदिशि उदेति तदा सा दिक् सौन्दर्येण परिपूर्णा भवति।  

अतः हे ऋषिवर! कृपया सूचयतु यत् तौ कौ? कुतः च आगच्छताम्? तयोः पितुः नाम कुलस्य च नाम किम्? 
ऋषिः विश्वामित्रः अवदत् हे राजन्! एतौ उभौ बालकौ राजकुमारौ एव स्तः। अयोध्यानरेशस्य राज्ञः दशरथस्य पुत्रौ रामचन्द्रः लक्ष्मणः च।  

एतौ उभावपि महान्तौ वीरौ पराक्रमिणौ च। तौ सुबाहु, ताड़का च इत्यादिभिः राक्षसैः सह घोरं युद्धं कृत्वा तेषां नाशम् अकुरुताम्। मारीचः यथा महाबलिनं राक्षसं रामः एकेन बाणेन शतयोजनदूरे समूहे अपातयत्। 

अहं मम यज्ञस्य रक्षणाय अयोध्यापतिं दशरथं याचित्वा तौ आनयम्। अहं ताभ्यां नानाप्रकार-अस्त्रशस्त्राणां शिक्षाम् अददाम्। तयोः प्रयत्नेन मम यज्ञः सफलतापूर्वकं सम्पन्नः अभवत्। तयोः सद्व्यवहारः, विनम्रता च इत्यादिभिः तौ आश्रमे स्थितानां सर्वेषाम् ऋषि-मुनीनां मनः अहरताम्। 
अतः हे राजन्! भवतः महतः धनुर्यज्ञस्य उत्सवं दर्शयितुं तौ अत्र आनयम्।

एतत् सर्वं वृत्तान्तं श्रुत्वा राजा जनकः अत्यन्तं प्रसन्नः अभवत्, तेषां वसनाय च यथोचितव्यवस्थाम् अकारयत्।
*प्रदीपः!*

No comments:

Post a Comment