Courtesy: Sri. Pradip Kumar nath
*श्रीरामायणकथा बालकाण्डम्।*
(त्रयोदश भागः)
अहल्यायाः कथा।
प्रातःकाले रामः लक्ष्मणः च ऋषिणा विश्वामित्रेण सह मिथिलापुर्याः उपवनानि द्रष्टुम् अगच्छताम्। एकस्मिन् उपवने किञ्चन निर्जनं स्थानं दृष्ट्वा रामः अपृच्छत् गुरुदेव! एतत् स्थानं दृष्ट्वा एवं प्रतीयते यद् अत्र आश्रमः आसीत् , किन्तु किं कारणं यद् अत्र कश्चिदपि मुनिः ऋषिः वा न दृश्यते?
ऋषिः विश्वामित्रः अवदत् हे राम! अस्मिन् स्थले महात्मनः गौतमस्य आश्रमः आसीत्। सः स्वपत्न्या अहल्यया सह अत्र तपस्यां करोति स्म। एकदा ऋषेः गौतमस्य अनुपस्थितौ इन्द्रः गौतमस्य वेषं धृत्वा आगत्य अहल्यां प्रणययाचनाम् अकरोत्। यद्यपि अहल्या इन्द्रम् अभिज्ञातवती तथापि अहम् अतीव सुन्दरी अस्मि इत्यतः देवराजः इन्द्रः मां प्रणययाचनं करोति इति विचिन्त्य सा स्वीकृतिम् अददात्।
यदा इन्द्रः स्वीयं लोकं प्रत्यगच्छत् तदा आश्रमं प्रत्यागच्छन् ऋषिः गौतमः तस्य एव वेषं धृत्वा देवराजः इन्द्रः ततः गच्छति इति अपश्यत्। तत्समये ऋषिः गौतमः सर्वं ज्ञात्वा इन्द्राय शापम् अददात्। ततः परं स्वीयां पत्नीमपि सः एवमुक्त्वा शापम् अददात् यद् रे दुराचारिणि! त्वं सहस्रवर्षपर्यन्तं केवलं वायुं पीत्वा सर्वं कष्टं सोढ्वा अत्रैव भूमौ स्थित्वा जीवनं कुरु। यदा रामः अत्र आगच्छेत् तदा हि तव उद्धारः भवेत्।
तदा हि त्वं पुनः पूर्वं शरीरं धृत्वा मम समीपम् आगन्तुं शक्नुयाः।
एवमुक्त्वा ऋषिः गौतमः एतम् आश्रमं त्यक्त्वा हिमालयं गत्वा तपस्यां कर्तुम् आरभत।
अतः हे राम! इदानीं त्वम् आश्रमस्य अन्तः गत्वा अहल्यायाः उद्धारं कुरु।
ऋषेः विश्वामित्रस्य आज्ञां प्राप्य रामलक्ष्मणौ आश्रमस्य अन्तः प्राविशताम्। तत्र तपस्यारता अहल्या कुत्रचिद् न दृश्यते स्म। केवलं तस्याः प्रकाशः सम्पूर्णे वातावरणे व्याप्तः आसीत्। यदा अहल्यायाः दृष्टिः रामस्य उपरि अपतत् तदा तस्य पवित्रं दर्शनं प्राप्य सा पुनः सुन्दर्याः नार्याः रूपेण दृश्यते स्म। सा तस्याः पुरतः रामं दृष्ट्वा हस्तौ योजयित्वा प्राणमत्। नारीरूपेण अहल्यां सम्मुखे दृष्ट्वा रामः लक्ष्मणः चापि श्रद्धापूर्वकं तस्याः चरणस्पर्शम् अकुरुताम्।
तत्पश्चात् ऋषिणा विश्वामित्रेण सह रामलक्ष्मणौ पुनः मिथिलापुरीं प्रत्यगच्छताम्।
*-प्रदीपः।*
No comments:
Post a Comment