Friday, January 20, 2023

Srimad ramayanam in Sanskrit bAla kAndam part 10

*श्रीरामायणकथा, बालकाण्डम्।*
(दशमो भागः)
गङ्गायाः जन्मकथा १

ऋषिः विश्वामित्रः अवदत् वत्स राम! पुराकाले तव हि वंशे अयोध्यायां सगरो नाम राजा अभवत्। सः पुत्रहीनः आसीत्। सगरस्य पत्नी केशिनी आसीत् या विदर्भप्रान्तस्य राज्ञः पुत्री आसीत्। केशिनी रूपवती सत्यपरायणा चासीत्। सगरस्य द्वितीया पत्नी सुमतिः या राज्ञः अरिष्टनेमेः पुत्री आसीत्।

महाराजः सगरः तस्य द्वे पत्न्यौ नीत्वा हिमालयस्य भृगुप्रस्रवणः इति नामकं स्थानं गत्वा पुत्रप्राप्तये तपस्यां कर्तुम् आरभत। तस्य तपस्यायां सन्तुष्टः सन् महर्षिः भृगुः तस्मै वरम् अददात्।

 तयोः मध्ये एकस्याः एक एव पुत्रः भवेत् यः अग्रे वंशं वर्धयेत्, अपरस्याः च राज्ञ्याः षष्टिसहस्र-पुत्राः भविष्यन्ति। 
कस्याः एक एव पुत्रः अपेक्ष्यते कस्याः च षष्टिसहस्र-पुत्राः अपेक्ष्यन्ते इति ते राज्ञ्यौ निर्णयम् अकुरुताम्। राज्ञी केशिनी वंशं वर्धयितुम् एकस्य एव पुत्रस्य कामनाम् अकरोत्। गरुडस्य भगिनी सुमतिः षष्टिसहस्राणां पुत्राणां कामनाम् अकरोत्। कालान्तरे राज्ञी केशिनी एकं पुत्रम् अजनयत्, तस्य नाम असमञ्जः इति अभवत्। राज्ञ्याः सुमत्याः गर्भात् च षष्टिसहस्राणां पुत्राणां जन्म अभवत्।  

 कालः गच्छति स्म, राजकुमाराः च सर्वे युवानः भवन्ति स्म। 
सगरस्य ज्यैष्ठपुत्रः असमञ्जः अत्यन्तं दुराचारी आसीत्।
सः नगरस्य बालकान् सरयूनद्यां पातयित्वा तान् जले निमज्ज्य च सः अतीव आनन्दं प्राप्नोति स्म। तस्मात् दुराचारिणः दुःखी भूत्वा महाराजः सगरः तं राज्यात् निर्वासितम् अकरोत्। 
असमञ्जस्य एक एव पुत्रः अंशुमानः आसीत्। अंशुमानः अत्यन्तं सदाचारी पराक्रमी चासीत्। 

एकदा राजा सगरः अश्वमेधयज्ञं कर्तुं विचारम् अकरोत्। शीघ्रं हि सः अश्वमेधयज्ञम् अकरोत्। 
रामः ऋषिं विश्वामित्रम् अवदत् गुरुदेव! अहं मम पूर्वजस्य राज्ञः सगरस्य यज्ञगाथां विस्तारपूर्वकं श्रोतुम् इच्छामि। अतः कृपया तस्य यज्ञस्य सम्पूर्णं वृत्तान्तं श्रावयतु। 
ऋषिः विश्वामित्रः तदा प्रसन्नः भूत्वा वदति स्म हे राम! राजा सगरः हिमालयविन्ध्याचलयोः मध्ये हरीतिमायुक्तभूम्याम् एकस्य विशालयज्ञमण्डपस्य निर्माणम् अकारयत्।
पुनः अश्वमेधयज्ञस्य कृते श्यामकर्णाश्वं विमुच्य तस्य रक्षणाय च पराक्रमिणम् अंशुमानं सेनया सह अप्रेषयत्।
*-प्रदीपः!*

No comments:

Post a Comment