*श्रीरामायणकथा, बालकाण्डम्।*
(सप्तमो भागः)
ऋषेः विश्वामित्रस्य आश्रमः।
विश्वामित्रः अवदत् वत्स! तत्र निश्चितः आश्रमः एवास्ति। तस्य आश्रमस्य नाम सिद्धाश्रमः।
एतच्छ्रुत्वा लक्ष्मणः अपृच्छत् गुरुदेव! तस्य आश्रमस्य नाम सिद्धाश्रमः किमर्थम् अभवत्?
ऋषिः विश्वामित्रः अवदत् वत्स! अस्मिन् सम्बन्धे एका कथा प्रचलिता अस्ति। प्राचीनकाले बलिः नाम कश्चन राक्षसः आसीत्। बलिः अत्यन्तं पराक्रमी बलशाली चासीत्। सः समस्तान् देवान् परास्तान् अकरोत्।
एकदा सः बलिः अस्मिन् आश्रमे कस्यचन महतः यज्ञस्य अनुष्ठानम् अकरोत्। तेन यज्ञेन तस्य बलम् इतोपि अधिकं भवेदिति विचिन्त्य सः यज्ञानुष्ठानम् अकरोत्। एतद् दृष्ट्वा देवराजः इन्द्रः अत्यन्तं भीतः अभवत्।
इन्द्रः समस्तान् देवान् नीत्वा भगवतः विष्णोः समीपम् अगच्छत्, तस्य स्तुतिं कृत्वा ते सर्वेपि भगवतः विष्णोः प्रार्थनामपि अकुर्वन् हे त्रिलोकीनाथ! राजा बलिः समस्तान् देवान् परास्तान् अकरोत्। इदानीं सः महान्तं यज्ञं करोति।
तस्य तपस्या, तेजस्विता, यज्ञादि शुभकर्म च इत्यादिभिः देवलोकेन सह सम्पूर्णं ब्रह्माण्डं कम्पमानम् अभवत्। यदि तस्य यज्ञोऽयं पूर्णः भवेत् तर्हि सः इन्द्रासनं प्राप्नुयात्। इन्द्रासने कस्यापि राक्षसस्य अधिकारः नीतिविरुद्धः अस्ति। अत एव हे लक्ष्मीपति! भवान् एतस्य कमपि उपायं कुर्यात् येन तस्य यज्ञः पूर्णः न भवेत्।
भगवान् विष्णुः तदा अवदत् - भवन्तः सर्वे निर्भयेण निश्चिन्ताः भूत्वा स्वीयं स्वीयं स्थानं गच्छन्तु। भवतां मनोरथं पूरयितुम् अहं शीघ्रं हि उपायं करिष्यामि।
देवानां गमनात् परं भगवान् विष्णुः वामनस्य रूपं धृत्वा तत्र अगच्छत् यत्र बलिः यज्ञं करोति स्म।
भगवतः विष्णोः वामनरूपं परमतेजस्विनं ब्राह्मणं दृष्ट्वा राजा बलिः अत्यधिकः प्रभावितः अभवत् , अवदत् च विप्रवर! भवतः स्वागतम् अस्ति। आज्ञापयतु यद् अहं भवतः कां सेवां करवाणि?
राजा बलिः महान् दाता उदारः च आसीत्।
राज्ञि बलौ एवम् उक्ते सति वामनरूपधारी भगवान् विष्णुः अवदत् राजन्! भगवतः भजनाय उपवेष्टुं मम त्रिपदभूमेः आवश्यकता अस्ति।
तदा राजा बलिः प्रसन्नतापूर्वकं वामनदेवाय त्रिपदभूमिं मातुम् अनुमतिम् अददात्।
*-प्रदीपः।*
No comments:
Post a Comment