Monday, August 2, 2021

sookti sarit - Sanskrit collections


सूक्तिसरित् -:
युक्तितर्कवचस्त्याज्यं दुर्जनेन बुधेन वा।
एको ददाति दुर्भाषां। द्वितीयस्तु पराजयम्।।(व्रजकिशोरः)  
सूक्तिसरित् -:
युक्तितर्कवचस्त्याज्यं दुर्जनेन बुधेन वा।
एको ददाति दुर्भाषां। द्वितीयस्तु पराजयम्।।(व्रजकिशोरः)  
सूक्तिसरित् -:
श्रुतं धनाज्जनो गर्वी नैतदाश्चर्यकारणम्।
ज्ञानेन तु महागर्वी भवतीति व्यथा न किम्।।
(व्रजकिशोरः)  
सूक्तिसरित् -:
श्रुतं धनाज्जनो गर्वी नैतदाश्चर्यकारणम्।
ज्ञानेन तु महागर्वी भवतीति व्यथा न किम्।।
(व्रजकिशोरः)  
सूक्तिसरित् -:
क्षमतारहितो लोको भवतु वा महागुणी।
मानं न लभते तद्वद् यथा संस्कृतशिक्षकः।। (व्रजकिशोरः)
सूक्तिसरित् - (३३४)
*****************
नीतिरेव बुधैर्ग्राह्या नीतिः फलवती सदा।
वैकल्पिकमतं ग्राह्यं यदि नीत्या न सिध्यति।। (व्रजकिशोरत्रिपाठी)

सूक्तिसरित् -:
क्षमतारहितो लोको भवतु वा महागुणी।
मानं न लभते तद्वद् यथा संस्कृतशिक्षकः।। (व्रजकिशोरः)
सूक्तिसरित्
*********
नतिवाक्यं मुखे कृत्वा स्वास्थ्यं पृच्छन्ति कौशलात्।
ततो वदन्ति ते स्वार्थं फोनयन्त्रेण वञ्चकाः।।
              (व्रजकिशोरत्रिपाठी)
सूक्तिसरित् -:
विचार उत्तमो यस्य बान्धवा हितकारकाः।
मित्राण्यपि विपत्काले स एव भाग्यवान् भुवि।। (व्रजकिशोरः)
सूक्तिसरित् -:
कथनाय श्रमो नास्ति समयं नाप्यपेक्षते।
साधनाय श्रमोऽनल्पः समयं तदपक्षते।।  (व्रजकिशोरः)
सूक्तिसरित् -:
अभावोस्तीह कस्यापि जनस्य विभवस्य वा।
ज्ञानस्य वा हि कालस्य किन्तु शान्तेः समस्य हा।। (व्रजकिशोरः)
सूक्तिसरित् -:
सर्वाः परम्परा नो हि धर्मवाच्याः कदाचन।
सर्वाः शिला यथा नैव शालग्रामा न वा सुराः।। (व्रजकिशोरः)

सूक्तिसरित् -:
स्नेहश्रद्धादयो यस्मिन् गुणा न सन्ति मानवे।
ज्ञानी धनी बली वास्तु कोपि तं न हि पृच्छति।।(व्रजकिशोरः)

सूक्तिसरित् -:
युद्धाभावाद् यथा वीरो जलाभावाद् यथा लता।
खाद्याभावाद् यथा देहश्छात्राभावात् तथा मतिः।।
(व्रजकिशोरः)  
सूक्तिसरित् -:
सहायकोस्तु वा नो वा मन्येत न कदाऽक्षमः।
स्वयं विघ्नमतिक्रम्य लक्ष्यं गच्छेद् यथा नदी।। (व्रजकिशोरः)  
सूक्तिसरित् -:
कदा चिन्ता कदा लोभः कदा कामः कदा मदः।
कदा व्याधिरतो दुःखं तत्रानन्दी नरो भवेत् ।। (व्रजकिशोरः)
सहायकोस्तु वा नो वा मन्येत न कदाऽक्षमः।
स्वयं विघ्नमतिक्रम्य लक्ष्यं गच्छेद् यथा नदी।।(व्रजकिशोरः)
अहंकारस्य सिद्ध्यर्थं दुष्प्रतिज्ञां न वै कुरु।
तया स्वस्य क्षतिर्नूनं समाजस्य हितापि न।।(व्रजकिशोरः)

अशान्तिं साधयेदन्यो तद्दुःखं प्रतिकारयेत्।
स्वजनः कुरुते तां चेन् महादुःखं हि जायते।। (व्रजकिशोरः)  
न पण्डितो येन शमो न धार्यते
शमश्च नैवास्ति विना सुभाषया।
न भारती सा च सुसंस्कृतं विना
सुसंस्कृतं नैव विना विपश्चिता।  

सूक्तिसरित् -:
घनकर्मशरीरेषु शरीरं पश्य सर्वथा।
तदारोग्याद् भवेत् कर्म कर्मणो धनसंग्रहः।।(व्रजकिशोरः)

सूक्तिसरित् -:
अन्यायस्य विरोधं न कुर्वन्ति चाटुवादिनः।
लघुस्वार्थकृते मौनं भजन्ति कुक्कुरा यथा।। (व्रजकिशोरः)

जीवितसमये पित्रोः सेवा येन कृता न हि।
मरणात् श्राद्धकार्येण तीर्थेन किं फलं भवेत्।।(व्रजकिशोरत्रिपाठी)

No comments:

Post a Comment