Tuesday, June 15, 2021

Meaning of Sarada Saradambhoja

Courtesy : Sri.Shreyas Mohan
शारदा शारदाम्भोज-
वदना वदनाम्बुजे।
सर्वदा सर्वदाऽस्माकं
सन्निधिं सन्निधिं क्रियात्॥

शरत्कालिकं पद्मम् इव आननं यस्याः तादृशी देवी सरस्वती सर्वदा अस्माकं मुखपद्मस्य समीपे विराजताम्। सा अस्माकं समृद्धिम् अपि विधेयात्।

शरदि भवम् शारदम्। *तत्र भवः* इति सूत्रेण शरद्+अण्।
अम्भसि जायते अम्भोजम्। *उपपदम् अतिङ्* इति सूत्रेण अम्भस् इति उपपदेन ज इत्यस्य कृदन्तस्य समासः। *सप्तम्यां जनेर्डः* इति सूत्रेण जनी प्रादुर्भावे इति धातोः डप्रत्यये जः इति सिध्यति।

शारदं च तद् अम्भोजम् इति शारदाम्भोजम्। *विशेषणं विशेष्येण बहुलम्* इति सूत्रेण कर्मधारयसमासः।

शारदाम्भोजम् इव वदनं यस्याः इति विग्रहे *अनेकमन्यपदार्थे* इति सूत्रेण समासः।

वदनम् एव अम्बुजम् इति अतधारणापूर्वपदः कर्मधारयः। *विशेषणं विशेष्येण बहुलम्* इति सूत्रेण समासः।

सन् चासौ निधिः च इति विग्रह् *सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः* इति विग्रहे कर्मधारयः। 

*दकारस्य* असकृद् आवृत्त्या *वृत्तयनुप्रासः*। *दन्त्यवर्णानाम्, ओष्ठ्यवर्णानां* च असकृत् प्रयोगात् श्रुत्यनुप्रासः।

अत्र *शारदा शारदा* इत्यत्र तथा *वदना वदना* इत्यत्र समानस्य शब्दस्य द्विरावृत्त्या (उभयत्र प्रथमं सार्थकं द्वितीयं निरर्थकम्) *यमकालङ्कारः*।

*सन्निधिं सन्निधिम्* इत्यत्र समानार्थत्वेन प्रतीयमानयोरपि अर्थभेदात् *पुनरुक्तवदाभासः*। तथैव यमकम् अपि। तयोः समानपदस्थितत्वेन पृथक् कर्तुम् अशक्यत्वात् *सङ्करः*।

शारदाम्भोजवदना इत्यत्र *समासगा लुप्तोपमा*।

वदनाम्बुजे वदने अमुजत्वारोपात् *रूपकम्*।

सङ्करः यत्रोक्तः तत्र विहाय अन्यत्र *संसृष्टिः*।

No comments:

Post a Comment