Wednesday, March 31, 2021

Husband & wife's love - Sanskrit joke

*पतिपत्न्योः प्रेम।*

कश्चन वृद्धः पत्न्या सह भोजनार्थम् उपाहारगृहं गतवान्। 
तत्र गत्वा सः कर्मकरम् आवयोः कृते भोजनं ददातु इति आदिष्टवान्। 

सः कर्मकरः तयोः कृते भोजनम् आनीय दत्तवान्। 

परन्तु भोजनं तौ द्वौ अपि युगपत् न खादितवन्तौ। प्रथमं सः वृद्धः भोजनम् अकरोत्। तस्य मूल्यं वृद्धा उपाहारगृहस्वामिने अददात्। 

अनन्तरं वृद्धा भोजनम् अकरोत्, तस्य मूल्यं च वृद्धः अददात्। 

एवं तयोः व्यवहारं दृष्ट्वा सः कर्मकरः आश्चर्येण तं वृद्धम् अपृच्छत् भोः! भवतोः पतिपत्न्योः मध्ये महत् प्रेम दृश्यते। परन्तु भवन्तौ द्वौ अपि युगपत् किमर्थं न खादितवन्तौ? 

सः वृद्धः तदा उक्तवान् भोः महोदय! भवान् सत्यमेव कथयति। परन्तु आवयोः समीपे केवलम् एकैव दन्तगुच्छः अस्ति। अतः आवां युगपत् एकेन दन्तगुच्छेन खादितुं न शक्नुवः।
*-प्रदीपः!*

No comments:

Post a Comment