*अन्यैः सह विवादे तु वयं पञ्चोत्तरं शतम्*
~~~~~~~~~~~~~~~~~~
प्रसङ्गोऽयं महाभारतस्य विद्यते । सर्वैः ज्ञायते यत् हस्तिनापुरस्य सिंहासनमादाय कौरवाणां पाण्डवानां च पक्षयोः भ्रातृषु परस्परं विवादः आसीत्। परन्तु महाभारते परस्परं विवदमानानां भ्रातृणाम् एकस्मिन् स्थले उदात्तोदाहरणमपि प्राप्यते। यदा पाण्डवानां वनवासोऽभवत् तदा निर्णयानुसारं पाण्डवाः वने आसन्। अत्रान्तरे दुर्योधनः पाण्डवेभ्यः स्वप्रभुत्वं प्रदर्शयितुं तेषां च कोपं वर्धयितुं वनं प्रति प्रस्थितवान्। परं वने पाण्डवानां आश्रयस्थनात् पूर्वमेव मार्गे गन्धर्वराजेन चित्रसेनेन दुर्योधनः बन्दीकृतः (निगृहीतः)।यदा घटनेयं धर्मराजेन युधिष्ठिरेण अज्ञायि तदा तेन दुर्योधनं चित्रसेनराजात् मोचयितुं भीमार्जुनौ आज्ञापितौ तदा भीमः तस्य आज्ञाम् अवहेडन् उवाच -हे भ्रातृवर्य ! अहं तं पापिनं मोचयेयं यस्य कारणात् वयमस्मिन् भयावहे वने इतस्ततः भ्रमामः । येन च द्रोपद्याः अपमानोऽकारि यश्च अस्माकं रक्तपिपासुः (जीवनं जिहीर्षुः) अस्ति। एतद्वचनं श्रुत्वा युधिष्ठिरः उवाच-
*परस्परं विवादे तु वयं पञ्च शतं च ते।*
*अन्यैः सह विवादे तु वयं पञ्चोत्तरं शतम्।*
वस्तुतः अस्माकं परस्परं विवादे तु वयं पञ्च पाण्डवाः स्मः परन्तु अन्यैः सह विवादे सति वयं शतकौरवान् ( शतसंख्याङ्कान् कौरवान्)समेत्य पञ्चाधिकशतं (१२५) स्मः। परं महदाश्चर्यमिदं यत् भयङ्करविवादे सत्यपि भ्रातृप्रेम्णः विचित्रादर्शोऽयं दृश्यते इति। एवमेव अस्माभिः सर्वैरपि भारतीयैः स्वस्वार्थान् विस्मार्य राष्ट्रहिताय एकीभवितव्यम् (ऐक्येन भवितव्यम्) इति।
*(डॉ नारायणदेवश्शात्री भरतपुरम्)*
19/07/2020
No comments:
Post a Comment