कश्चन महाराजः आसीत्।
एकदा सः महाराजः घोषणाम् अकरोत् यद् अपरस्मिन् दिने प्रातःकाले यदा राजप्रासादस्य द्वारम् उद्घाटितं भविष्यति तदा प्रजाजनेषु यः प्रथमं राजप्रासादस्य यस्य वस्तुनः स्पर्शं करिष्यति तद् वस्तु तस्य एव भविष्यति इति।
महाराजस्य उद्घोषं श्रुत्वा प्रजाजनाः परस्परं चर्चां कुर्वन्तः आसन् यत् कः कस्य स्पर्शं करिष्यति इति।
कश्चिद् वदति अहं स्वर्णस्य स्पर्शं करिष्यामि। अन्यः कश्चन वदति अहं अश्वस्य स्पर्शं करिष्यामि इति।
परेद्यवि यदा राजप्रासादस्य द्वारम् उद्घाटितम् अभवत् तदा प्रजाजनाः धावन्तः राजप्रासादस्य अन्तः प्रविश्य कः प्रथमं कस्य वस्तुनः स्पर्शं कुर्यात् इति चिन्तितवन्तः।
तदानीम् एव कश्चन जनः धावित्वा गत्वा महाराजस्य स्पर्शम् अकरोत्।
अर्थात् महाराजः एव तस्य अभवत्। महाराजः एव तस्य अभवत् इत्युक्ते महाराजस्य यद् वस्तु राजप्रासादे अस्ति तत् सर्वम् अपि तस्य अभवत्।
कथायाः तात्पर्यम् एवम् अस्ति यद् ईश्वरनिर्मितवस्तुनः पृष्ठतः वयं धावामः परन्तु ईश्वरस्य प्राप्तेः विषये न चिन्तयामः।
*-प्रदीपः!*
No comments:
Post a Comment