Tuesday, September 8, 2020

Ramacaritmanas-Sanskrit essay

श्रीमानसग्रन्थरत्नम् --
              
            श्रीरामचरितमानसग्रन्थ: कश्चन आशीर्वादात्मकः, महत्वभूतः एवमेव पवित्रग्रन्थः वर्तते । अस्य लोकप्रियता प्रसिद्धा । श्रद्धालवः जनाः प्रत्येकं पद्यं मन्त्रवत् आद्रियन्ते । एतस्य श्रद्धापूर्वकं स्वाध्यायेन लौकिक-पारलौकिक-सम्बद्धानि नानाकार्याणि सिद्धतां गच्छन्ति ।
       यस्य ग्रन्थस्य रचना स्वयं गोस्वामि-तुलसीदास-सदृशेन महता भगवद्भक्तेन कृता वर्तते यत् तद्ग्रन्थस्य उपादेयतापि अनुपमेया, अनिर्वचनीया चास्ति इत्यत्र नास्ति किमपि सन्देहस्थानम् । ग्रन्थेऽस्मिन् साक्षात् श्रीसीतारामयोः, श्रीगौरीशङ्करयोः च दिव्यकृपा विराजमाना अस्ति ।
       अस्य ग्रन्थस्य स्थानं न केवलं हिन्दिसाहित्ये एव अपितु विश्वसाहित्ये अस्ति । आदर्शयुक्तं गार्हस्थ्य-जीवनम्, आदर्श-राजधर्मः, आदर्श-पारिवारिक-जीवनम्, आदर्श-पातिव्रतधर्मः, आदर्श-भ्रातृप्रेम, सर्वोत्तमा भक्तिः, ज्ञानम्, त्यागः, वैराग्यम्, सदाचारः, न्यायः, सत्साहसः इत्यादिविषयिणी, मानवजीवने स्वकल्याणाय, आचरणीया सर्वविधा सच्छिक्षा ग्रन्थेऽस्मिन् उपलभ्यते ।
     पूर्वकालतः एव निर्धनः, धनवान्, शिक्षितजनः, अशिक्षितजनः, गृहस्थः, संन्यासी, स्त्री, पुरुषः, बालकः, वृद्धः इत्यादयः सर्वप्रकारकाः, सर्ववर्णीयाः जनाः च श्रद्धारुचिपूर्वकम् अपठन्, हम्प्रति पठन्तः सन्ति, सुदूरभविष्यत्कालपर्यन्तमपि अवश्यं पठिष्यन्ति निस्सन्देहम् । सर्वैरपि पठनीयमपि एतादृशं ग्रन्थरत्नं सर्वदा । पठनपाठनाभ्यां  साक्षात् लाभः अधिगम्यते, यतोहि अत्र भगवत्कृपा हि प्रत्यक्षरूपेण  फलदानकार्यं कुर्वती अस्ति इति । शम् !

             सुसायम् ! जयतु संस्कृतम् !
                  -- नारदः, २३/०८/२०.

No comments:

Post a Comment