Tuesday, September 8, 2020

Nirmalya pooja at Guruvayur - Sanskrit essay

*निर्माल्यम् - गुरुवायूर् मन्दिरविशेषाः*

मध्याह्न पूजायां विशेषकलशाभिषेको भवति । नैवेद्येऽपि विशिष्टानि खाद्यानि भवन्ति । विविधरसैः भूरिभोजनं कदलीफलभर्जकः पायसं नवनीतं क्षीरं दधि सुमधुरकदलीफलानि इत्यादयः प्रमुखतया भवन्ति ।अस्मिन्नवसरे ब्राह्मणानां कृते भोजनं कल्पयन्ति। प्रसन्नपूजानन्तरं दीपानां
प्नभापूरितगर्भगृहे नवमाल्यैः वासैः किरीटकुण्डलकनकाभरणैः अलंकृतं भगवन्तं द्रष्टुं शक्नुमः। दर्शनीयतमं इदं भगवत्स्वरूपं भक्तानां मनसि हर्षमाशु जनयति ।।

गुरुपवनपुराधीशस्य विविधाः भावाः

निर्माल्यदर्शने - विश्वरूपः।

तैलाभिषेकावसरे - वातरोगघ्नः।

वाकच्चार्त्त् (शिरीषत्वक्चूर्णलेपितसमये
) - गोकुलेश्वरः ।

शङ्खाभिषेकसमये - सन्तानगोपाल

बालालङ्कारसमेतः - गोपिकारमणः

अभिषेकसमये - यशोदानन्दनः

नवकाभिषेकावसरे - वनमालाकृष्णः

मध्याह्नपूजावसरे - सकलाभरणविभूषितहरिः

सायंकाले - सर्वमङ्गलदायकः

दीपाराधनावसरे - मोहनमधुसूदनः

रात्रिपूजायाम् - वृन्दावनविहारी

तृप्पुकावसरे सुगन्ध-धूपाराधनावसरे - शेषशायी ।।

एकैकस्य भावस्य दर्शनफलमपि पृथक्त्वेन विश्वसन्ति भक्ताः ।।


पाहि वातालयेश !


- सुनीशः 

No comments:

Post a Comment