Wednesday, July 29, 2020

Shukra graha in brihatjatakagraha

अत्र संशयः यत् -: शुक्रमहाग्रहः श्यामः शुक्लो वा ?

शुक्रमहाग्रहस्य वर्णादीन् पश्यन्तु -:  अयं श्यामवर्णाग्निकोणस्त्रीब्राह्मणजातियजुर्व्वेदरजोगुणाम्लरसवृषराशिहीरकरत्नभोजकटदेशानामधिपतिः । भृगुमुनिसन्तानः । नवाङ्गुलशरीरः । पद्मस्थः । सूर्य्यमुखः । श्वेतवर्णः ।चतुर्भुजः । सदा जपमालावरकमण्डलुदण्डधारी । शुक्लवस्त्रः । इन्द्राधिदेवताकः । शचीप्रत्यधिदेवताकः । शुभग्रहः । अपराह्णकालेप्रबलः । जलचारी । कफप्रकृतिः । रूप्यद्रव्यधान्यादिस्वामी । मध्यवयः । रतीश्वरः । जलभूमिचारी । स्निग्धरुचिः । द्विपदमनुष्याणां स्वामी च । (इति बृहज्जातकग्रहयागतत्त्वादयः)

No comments:

Post a Comment