*यत्र सज्जनाः वसन्ति तत्रैव स्वर्गः*
~~~~~~~~~~~~~~
एकदा भगवान् विष्णुः महाराजबलिं प्रश्नमपृच्छत् । किं भवान् सज्जनैः सह नरकं गन्तुं इच्छेत् अथवा दुष्टैः मूर्खैः च सह स्वर्गं गन्तुम् इच्छेत्। तदा बलिः उदतरत्-हे भगवन्! मम तु सज्जनैः सह नरकगमने एव रुचिः अस्ति। एतच्छ्रुत्वा भगवान् विष्णुः बलिमपृच्छत्-अस्य किं कारणम् ? इति पृष्टे सति महाराजः बलिः उदतरत्-भगवन्! यत्र सज्जनाः वसन्ति तत्रैव स्वर्गो भवति यत्र च दुर्जनाः वसन्ति तत्रैव नरको भवति। वस्तुतः दुर्जनसङ्गेन स्वर्गोपि नरकायते, सद्भिश्च सङ्गश्चेत् नरकोपि स्वर्गायते। यत्र सज्जनाः वत्स्यन्ति तत्रैव स्वर्गो भविष्यति इति।
*(डॉ नारायणदेवश्शात्री भरतपुरम्)*
16/07/2020
No comments:
Post a Comment