Thursday, June 25, 2020

Mahakavi kalidas-Sanskrit essay

महाकविः कालिदासः --

  धरातले समये समये विशिष्टकार्यार्थम् अथवा  सामान्यजनेभ्यः समुचितमार्गदर्शनाय, महते प्रेरणाप्रदानाय च विशेष-विभूतिसम्पन्नाः महान्तः पुरुषाः आविर्भूताः भवेयुः परम्परया । संस्कृत-वाङ्मयक्षेत्रे अपि एतादृशानां बहूनां महतां पण्डितानां परम्परया आगमनम्  अभवत् अस्मिन् तपोभूमि-भारतदेशे । एतेषु महत्सु विद्वत्सु महाकविः कालिदासः अन्यतमः ।
         कालिदासस्य जन्म कदा कुत्र च अभवत् इति विषये विद्वन्मध्ये अपि एकमतं नास्ति । तथापि विक्रमादित्यस्य राजत्वकाले नवरत्नेषु सः एकरत्नः आसीत् इत्यतः तत्समकालीनः आसीत् सः इति पण्डितैः अनुमीयते । यत्किमपि भवतु नाम तस्य जन्म आषाढ-मासस्य शुक्लप्रतिपदातिथौ, अर्थात् अद्यतने एव दिनाङ्के जातः आसीत् इत्येतत् सर्वमान्यं मतं वर्तते । संस्कृतस्य प्रचार-प्रसारणादिषु निष्ठया कटिबद्धतया च सङ्लग्ना संस्कृतभारतीगोष्ठी अद्यतनं दिनं कालिदासदिनमिति संघोष्य संस्कृतस्य पुनरुज्जीवनाय बहुबर्षेभ्यः पूर्वतः एव सङ्कल्पबद्धपूर्वकं संस्कृतमातुः सेवार्थम् आत्मानं पूर्णतः समर्पितवती अस्ति, तदनुरूपं फलमपि आविश्वं दृश्यमानं वर्तते सम्प्रति ।
         कालिदासः संस्कृतसाहित्यस्य महाकविः आसीत् इत्यत्र न कोऽपि सन्देहः, न वा कस्यापि विप्रतिपत्तिः। तदुपरि सः महान् नाटककारः आसीत् । सः राष्ट्रियः कविः इत्येवमपि आख्यायते । 'अभिज्ञानशाकुन्तलम्' इति ग्रन्थस्य रचना तस्य सर्वश्रेष्ठा अमूल्या च विश्वकृतिः वर्तते । तथैव मेघदूतम्, मालविकाग्निमित्रम्, कुमारसम्भवः, ऋतुसंहारः, विक्रमोर्वशीयम् इत्यादिरचनाः तस्य अनुपमाः अमृताः कृतयः वर्तन्ते लोके । 
         युवावस्था-पर्यन्तमपि सः मूर्खवदेव आसीत् । वृक्षस्य या शाखा कर्तनीया आसीत् तदुपरि हि उपविश्य सः तच्छाखां कर्तयितुम् आरब्धवान्  कदाचित् । तद्दृष्ट्वा कैश्चन तर्कशीलैः पण्डितैः चिन्तितं यत् अस्माभिः अपेक्षितः मूर्खः एतादृशः एव  उपयुक्तः भवेत् तस्यै विद्योत्तमायै । राजकुमारी विद्योत्तमा तर्कशास्त्र-निपुणा आसीत् । यः तां तर्के जेतुं शक्नुयात् तेन सहैव तस्याः विवाहः जायते इति सङ्कल्पितम् आसीत् । तया एते पण्डिताः शास्त्रे पराजिताः आसन्, इत्यतः तां प्रति एतेषां महान् रोषः । अतः तस्याः वरार्थं मूर्खस्य अनुसन्धानं तेषाम्, सौभाग्येन मिलितः अपि । कालक्रमे विद्योत्तमया सहः तस्य विवाहः अपि जातः । ततः एव क्रमशः सः महान् विश्वविश्रुतः महाकविः जातः । तेन भगवती-महाकालीमातुः वरदानं प्राप्तम् आसीत् इत्यतः तस्य नाम कालिदासः जातः इति  , शम् ।

       महाकवेः जन्मदिवसस्य शुभाशयाः, अभिनन्दनञ्च सर्वेभ्यः !
       -- नारदोपाध्यायः, समार-दलनि, विश्वनाथः ।
                                    - २२/०६/२०२०.

No comments:

Post a Comment