Thursday, June 25, 2020

Sridhaaru Brihat Taandavam - Sanskrit poem

श्रीदारुब्रह्मताण्डवम् 
******************
(१)
धडद्-धडद्-धडद्-धडद्-पहण्डिशब्दमण्डितं
घडर्-घडर्-घडर्-घडर्-रथीयनादकम्पितम्।
थथै-थथै-थथै-थथै-मृदुङ्गलास्यशोभितं
स्मरन् स्मरन् स्मरन् स्मरन् नमामि दारुदैवतम्।।
(२)
सुनीलशैलराजितं सुनीलचक्रभूषितं
सुनीलसागरस्थितं सुपीतवस्त्रभासितम्।
सुभद्रभद्रसंयुतं सुभद्रिकासमन्वितं
सुवर्णपीठसंस्थितं नमामि दारुदैवतम्।।
(३)
सुनिम्बदारुवेरकं धराधराभधारकं
मयूरपिच्छधारकं सुवर्णहारधारकम्।
सुवर्त्तुलाक्षिधारकं विचित्रचित्रधारकं
रथप्रमोदवर्द्धकं नमामि दारुदैवतम्।।
(४)
सुतीक्ष्णचक्रनायकं विशालशार्ङ्गसायकं
विशिष्टशङ्खधारकं सुलीलपद्मधारकम्।
प्रमत्तदैत्यदारकं प्रभूतशान्तिकारकं
अनल्पपुण्यदायकं नमामि दारुदैवतम्।।
(५)
गजेशराजपूजितं सुनन्दिघोषवन्दितं
सुरेन्द्रनित्यनन्दितं विनन्द्यकीर्त्तिराजितम्।
रिपुप्रतापतापकं समग्रलोकपालकं
यमप्रकोपतारकं नमामि दारुदैवतम्।।
(६)
खगेश्वरं गदेश्वरं भवेश्वरं शिवेश्वरं 
महीश्वरं महेश्वरं सुदर्शनेश्वरं वरम्।
कलीश्वरं कलेश्वरं हलीश्वरं सुरेश्वरं
पुरेश्वरं पुरीश्वरं नमामि दारुदैवतम्।।
(७)
रथेश्वरं पथेश्वरं नटेश्वरं वटेश्वरं
सुधीश्वरं सदीश्वरं हृदीश्वरं नदीश्वरम्।
मखेश्वरं क्षमेश्वरं जनेश्वरं दयेश्वरं 
विशिष्टकन्दरीश्वरं नमामि दारुदैवतम्।।
(८)
गुणेश्वरं गुणीश्वरं गिरेश्वरं गिरीश्वरं 
मुनीश्वरं शुभेश्वरं दरिद्रमानुषेश्वरम्।
जवाधरं रमाधरं नगाधरं धराधरं
परात्परं तमोहरं नमामि दारुदैवतम्।।
(९)
पदाम्बुजं कराम्बुजं दृगम्बुजं मुखाम्बुजं 
विभिन्नरूपधारकं गजेन्द्रमुक्तिकारकम्।
महाप्रसाददायकं सुभक्तिभुक्तिदायकं
करालकालनाशकं नमामि दारुदैवतम्।।
(१०)
प्रशस्तरम्यमन्दिरं प्रकृष्टकृष्णसुन्दरं 
सुभक्तमोक्षदायकं समग्रविश्वनायकम्।
अखण्डभाग्यकारकं प्रचण्डपापहारकं
प्रमाददावदाहकं नमामि दारुदैवतम्।।
(११)
समस्तनष्टशासकं समस्तकष्टनाशकं 
समस्तमन्दवारकं समस्ततापतारकम्।
समस्तदिव्यकामदं समस्तभव्यमानदं
समस्तसौख्यदायकं नमामि दारुदैवतम्।।
(१२)
सदा जगत्पतिस्तुतिर्ददाति सौख्यसंहतिं
स्मरन् पठन् जपन् जनः प्रयाति पूतपद्धतिम्।
हृदा मुदा द्विजव्रजः प्रणौति तं महाप्रभुं
ददातु शुद्धभावनां धनं धियं सुखं शुभम्।।
(रचकः व्रजकिशोरः)

No comments:

Post a Comment