केवलं विनोदाय मया लिखितोऽयं संदेशः।
जनगणनाधिकारी (एकं गृहं गत्वा महिलाम् उद्दिश्य) - भगिनि! भवत्याः गृहे कति जनाः सन्ति?
महिला- वयं चत्वारः जनाः स्मः।
अधिकारी- के के सन्ति?
महिला- अहम्, मम पतिः, द्वौ पुत्रौ च!
अधिकारी- भवत्याः पत्युः वयः, अपिच भवत्याः वयः?
महिला- यदा मम विवाहः अभवत् तदा अहम् अष्टदशवर्षीया आसम्, मम पतिः च पञ्चविंशतिवर्षीयः आसीत्।
इदानीं तस्य वयः द्विगुणम् अभवत् इत्युक्ते तस्य वयः इदानीं पञ्चाशत् वर्षाणि, तदनु मम वयः अपि द्विगुणम् अभवत् इत्युक्ते षट्त्रिंशत् वर्षाणि।
तत् श्रुत्वा अधिकारी मूर्च्छितः अभवत्।
इदानीं बहवः जनाः मिलित्वा तस्य अधिकारिणः शिरसि जलं पातयन्ति चेदपि तस्य चेतना न आगता।
*-प्रदीपः!*
No comments:
Post a Comment