Tuesday, June 30, 2020

5 verses on Chinese army- Sanskrit

चीनसैन्यकृते पञ्चकम्
*******************
(१)
पृथिव्यां यः ख्यातः सरलसरलः कूटसुपटु
र्महामानी ज्ञानी चतुरचतुरो नीतिनिपुणः।
अतस्त्यक्त्वा धैर्यं चल चल गृहं चीनपृतने 
जवाहारो नायं सकलकुशली मोदिनृपतिः।।
(२)
अरे जिं पिङ्ग त्वं भ्रमसि जगतीं पश्यसि न किं
कथां कार्यं नीतिं मधुरवचनं शासनपथम्।
निरीक्ष्यान्ये मौनाश्चल चल गृहं चीनपृतने 
जवाहारो नायं सकलकुशली मोदिनृपतिः।।
(३)
कदायं संन्यासी मधुरवचनैर्हृद्धरति ते
कदा युद्धं कर्तुं निजबलिबलं संह्वयति च।
क्षमो बोद्धुं को नो चल चल गृहं चीनपृतने 
जवाहारो नायं सकलकुशली मोदिनृपतिः।।
(४)
कृतिं दृष्ट्वा ट्रम्पः पुतिननृपतिर्मुख्यमहिपा
धनं मानं ज्ञानं ददति ससुखं शस्त्रनिचयम्।
विलोक्येदं सर्वं चल चल गृहं चीनपृतने 
जवाहारो नायं सकलकुशली मोदिनृपतिः।।
(५)
न ते माया काया न हि कुटिलवार्त्ता न रटनं
न वा मिथ्या गर्वो न च समरसज्जा च भविता।
न चोत्पातः शक्तिश्चल चल गृहं चीनपृतने !
जवाहारो नायं सकलकुशली मोदिनृपतिः।।
(व्रजकिशोरः)

No comments:

Post a Comment