*निर्माल्यम् - गुरुवायूर् मन्दिरविशेषाः*
प्रातः ६.४५ तः ७.१० गुरुपवनपुरेशस्य श्रीभूतबलिः "शीवेलि" भवति तस्मिन् समये भगवतः उत्सवमूर्त्तिं गृहीत्वा प्रधानार्चकः गजम् आरोहति । वाद्यघोषैः सह पार्षदानां कृते बलिसमर्पणं पश्यन् गजारूढः भगवान् त्रिवारं मन्दिरप्रदक्षिणं क्रियते । भक्ताः हरेराम नामजपसमेतं भगवन्तं अनुगच्छन्ति। अस्मिन्नवसरे प्राकारस्य अन्तः प्रवेशानुमतिर्नभवति। अष्टवादनतः नववादनपर्यन्तं पन्तीरटिपूजा समयः उदयात्परं यदा सूर्यप्रकाशकारणात् छाया द्वादशपादपरिमितदैर्घं प्राप्यते तदानीमेव इयं पूजा भवति। नववादनतः सपाद-एकादशवादनपर्यन्तं भक्ताः भगवतः दर्शनार्थं श्रीनिकेतनसमीपं गन्तुं शक्यते। पश्चात् मध्याह्नपूजा भविष्यति।।
पाहि वातालयेश !
- सुनीशः
No comments:
Post a Comment