Friday, May 1, 2020

Who is a student - Sanskrit article

विद्यार्थी कः ?

 यः स्वजीवने विद्यां प्राप्तुम् अहर्निशं प्रयत्नं करोति, यद्विद्यां प्राप्य च स्वस्य व्यावहारिके जीवने तद्विद्यायाः उचितप्रयोगं करोति ; यस्मिन् स्फुटतया विनयशीलता, समुचितभयं लज्जा च दृश्यते ; श्रेष्ठम्, ज्येष्ठम्, गुरुञ्च प्रति यस्मिन् अत्यन्तम् आदरभावः  अवलोक्यते ; प्रत्येकम् अशन-वसन-शयन-वचन-व्यवहारादिषु यः स्वयम् अनुशासितः च इत्येतादृशैः मानवोचितगुणैः युक्तो युवा/युवती प्रकृतो विद्यार्थी/विद्यार्थिनी कथ्यते । 
    कश्चन कविः वदति -
'विद्यातुराणां न सुखं न निद्रा ।
कामातुराणां न भयं न लज्जा ।।' इति ।
  विद्यार्थी एकः साधकः तपस्वी वा । तस्य लक्ष्यमेव जीवने अावश्यकीय-ज्ञानस्य उपलब्धिः । अतः तस्य साधनकाले सुख-निद्रा-आमोद-प्रमोद-भोगादिविषयस्य अनुभवः प्रायो न भवति । तस्य दृष्ट्यां तु एकमेव लक्ष्यं विद्यासाधनम् इति । परन्तु यः  कामातुरः चञ्चलः च सः उचितां विद्यां लब्धुं न प्रभवेत्। तस्मिन् अपकर्मसु, व्यभिचारादिषु भयं लज्जा च न भवति । एतादृशः कामातुरः दुर्गुणयुक्तो युवा विद्यालयादिषु पठन्नपि प्रकृतो विद्यार्थी न आख्यायते । तस्य विद्यासाधनं न भवति । परीक्षादिषु अपि असत्पन्थानम् अवलम्ब्य एव उत्तीर्णः दृश्यते । विद्यार्थिनां कृते एतादृशम् आचरणं जीवने कल्याणाय न स्यात् सर्वथा । 
       दृश्यते यत् जीवने पूर्वं कृतं कष्टम् उत्तरार्धजीवने सुखाय भवेत् ; तद्विपरीततया पूर्वं सुखं चेत् उत्तरजीवने दुःखाय इति वदन्ति ज्येष्ठाः । अतः जीवनस्य उत्तरार्धे एव साधनाकष्टं सोढव्यं जनैः इति ।
            -- नारदः, २१/०२/२०.

No comments:

Post a Comment