Wednesday, May 13, 2020

Crow and fox- Sanskrit story

*काकः शृगालः च।*

एकः काकः उड्डीय आगत्य एकस्य वृक्षस्य शाखायाम् उपाविशत्। 
तस्य मुखे एकः मांसखण्डः आसीत्। 
वृक्षस्य अधः शृगालः तस्य काकस्य मुखे मांसखण्डं दृष्ट्वा तस्य लोभः उत्पन्नः अभवत्। 
कथं तत् खादनीयम् इति सः शृगालः चिन्ताम् अकरोत्।

तदा सः शृगालः एकम् उपायं चिन्तयन् काकम् अवदत् भोः काकभ्रातः! भवान् बहुः सुन्दरः अस्ति, भवतः कण्ठस्वरः अपि मधुरः। कृपया एकं गानं गायतु इति कृत्वा शृगालः काकस्य प्रशंसाम् अकरोत्। 

शृगालस्य मुखात् प्रशंसावचनं श्रुत्वा काकः अतीव प्रसन्नः अभवत्। 
तदा काकः का का इति कृत्वा गानम् आरब्धवान्। तत्क्षणं तस्य मुखात् मांसखण्डः अधः पतितः। 

शृगालः तदा तन्मांसं गृहीत्वा अखादत्। 
काकः निराशः सन् ततः अगच्छत्। 
*-प्रदीपः!*

No comments:

Post a Comment