Wednesday, May 13, 2020

Fear-Sanskrit Subhashitam

"पादपानां भयं वातात् पद्मानां शिशिराद् भयम् ।
पर्वतानां भयं वज्रात् साधूनां दुर्जनाद्भयम्॥"
सु.भा. - सामान्यनीतिः 

दृढमूलाः अपि वृक्षाः वेगयुक्तस्य वायोः कारणतः पतनं प्राप्तुम् अर्हन्ति । अतः वृक्षाणां वायुतः भयम् (अपाय:) अस्ति ।
 यदि हिमपातः भवति तर्हि कमलं नष्टं भविष्यति । शिशिरऋतौ हिमपातः भवति खलु ? अतः कमलानि शिशिरऋतुतः भीतानि भवन्ति । 
पूर्वं पर्वतानां पक्षाः आसन् इति, इन्द्रः तान् पक्षान् कर्तितवान् इति च कथा श्रूयते । अतः वज्रायुधतः पर्वतानां भीतिः । 
सज्जनाः यद्यपि यस्य कस्यापि अहितं न आचरन्ति, तथापि परपीडनस्वभावयुक्ताः दुष्टाः विना कारणम् अपि सज्जनान् पीडयितुम् अर्हन्ति । अतः सज्जनाः दुष्टजनेभ्यः भीताः भवन्ति । एवं लोके एकैकस्यापि एकैकविधं भयं भवति एव ।🙏

No comments:

Post a Comment