Thursday, April 9, 2020

Loving the wealth - Sanskrit story

*धनं प्रति अतीव प्रेम।*

एकदा दौ पतिपत्न्यौ एकां मेलां गतवन्तौ आस्ताम्। 
मेलायां बहूनि प्रदर्शनियानि वस्तूनि आसन्। 

तत्र विमानम् अपि आसीत्। 
विमानचिटिकायाः मूल्यं द्विशतं रुप्यकाणि आसन्। 

एकः जनः अर्धघण्टापर्यन्तं विमानयात्रां करोति चेद् द्विशतं रुप्यकाणि अपेक्षितानि भवन्ति। 

तस्य महोदयस्य पत्नी इच्छां प्रकटितवती यत् सा विमानयात्रां करिष्यति इति। 

परन्तु तस्याः महिलायाः पतिः चिटिकायाः मूल्यं द्विशतं रुप्यकाणि इति विदित्वा तन्न अङ्ग्यकरोत्। 

तयोः वार्तालापं श्रुत्वा सः विमानचालकः तम् उक्तवान् भोः महोदय। भवतः पत्नी यात्रां कर्तुम् इच्छति अतः एकं कार्यं यदि भवान् कुर्यात् चेद् अहं भवतः एकमपि रुप्यकं न स्वीकरिष्यामि। अनुबन्धः अस्ति यद् विमानयात्रासमये भवान् एकमपि शब्दं न कुर्यात् इति। 

तदा सः हर्षेण उक्तवान् अस्तु, अहम् एकमपि शब्दं न उच्चारयिष्यामि इति। 

तदा तौ उभौ अपि विमानम् आरुढवन्तौ।
चालकः तदा विमानं चालयितुम् आरब्धवान्। 

सः चालकः तदा एतावता वेगेन विमानं चालयितुम् आरब्धवान् येन कोऽपि यात्री चित्कारं कुर्यात्। 

कदापि विमानम् उपरि नयति कदापि अधः आनयति। कदापि वक्रः इव चालयति कदापि ऋजुः चालयति इति।

एवं प्रकारेण विमानं चालनसमये तस्य महोदयस्य पत्नी विमानात् भूमौ पतिता अभवत् सत्यपि सः एकमपि शब्दं मुखे न उच्चारितवान्। 

अन्ते सः विमानं भूमौ अवतारितवान् तं च उक्तवान् महद् आश्चर्यम्! भवतः पत्नी विमानतः भूमौ पतिता अभवत् तथापि भवान् एकं शब्दमपि न उच्चारितवान्?!

तदा सः महोदय करवस्त्रेण मुखात् स्वेदं मार्जयन् उक्तवान् किं करवाणि महोदय। अत्र मम चतुश्शतं रुप्यकाणां प्रश्नः अस्ति। 
अहं शब्दम् अकरिष्यं चेत् मम चतुश्शतं रुप्यकाणां हानिः अभविष्यत्। अतः धैर्येण उपविशन् आसम्। 🙁😜
*-प्रदीपः!*

No comments:

Post a Comment