Thursday, April 9, 2020

By doing japa you will not get sin - Sanskrit sloka

*उद्योगे नास्ति दारिद्र्यं जपतो नास्ति पातकम्।*
*मौने च कलहः नास्ति नास्ति जागरिते भयम्।*

अर्थात्
यः श्रमं करोति तस्य दरिद्रता न भवति। श्रमेण सः धनोपार्जनं कृत्वा तस्य दरिद्रतां दूरीकरोति।
जपेन पापं दूरीभवति। अर्थात् यः सर्वदा भगवतः नामस्मरणं करोति तस्य पापं न भवति। 
मौनेन तिष्ठेत् चेत् कलहः न भवति। इत्युक्ते यदि कोऽपि भवतः कपोले चपेटिकां मारयति चेदपि गान्धिः इव तस्य विरोधं न कुर्यात्, मौनेन ततः आगन्तव्यम्। 😷😃
अपिच यः सर्वदा जागरितः अर्थात् सतर्कतायां तिष्ठति तस्य भयं न भवति इति शम्। 
*हरिः ॐ। शुभसन्ध्या।* 🙏
*-प्रदीपः!*

No comments:

Post a Comment