Courtesy:Sri.Niranjan Mishra
।।जयति धूर्तता।।
जयति जयति काचिद् धूर्तता राजनीतौ
विकसति खलु नेतुर्मानसे पद्मिनीव।
मधुरिममधुलोभाद् यत्र मत्तद्विरेफा
निजमधुमयगीतैर्यां स्तुवन्तीह नित्यम्।।1
अधरयुगलमञ्चे या स्मितिर्नर्तकीव
स्फुरति विविधतालैर्नृत्यभेदं दिशन्ती।
विजनहृदयकक्षे सैव तीक्ष्णास्त्रपुञ्जं
वहति जनविलासं कर्तयत्यत्र येन।।2
मधुरवचनपाशैर्लोकचेतांसि बद्ध्वा
खरतरकरवालैर्खण्डनेन प्रसन्ना।
गरलजलदजालं चेतसि स्थापयित्वा
शशधरकरधाराधौतवक्त्रेव भाति।।3
कुसुमदलविलासस्यापि शूलत्वमूलं
निगदति निजतन्त्रैस्तार्किकप्रीतिपूर्णा।
खलदलकृतपापं पुण्यपद्मांकुरस्य
स्थलमिव जनमध्ये दर्शयत्यात्ममुग्धा।।4
इयमिह खलु नेतु: कौलधर्मप्रणेत्री
दलितजनसभाया ब्रह्मसंसद्विधात्री।
धवलवसनयोगाद्दानवानां सुरत्व-
प्रवचनकुशलेयं सर्वसौभाग्यदात्री।।5
नहि चरणसपर्यां य: करोत्यद्य तस्या
विलसति नहि तस्य प्रीतये राजलक्ष्मी:।
निजवचनविलासै: कर्दमस्यापि शुद्ध-
स्फटिकमणिविलासोद्घाटिनीयं हि विज्ञा।।6
सदयहृदयलोकैर्ज्ञायते या न लोके
कुटिलजनमनोभिर्वन्दिता सैव नित्यम्।
प्रतिपदमिह रूपोद्वर्तने सिद्धतन्त्रा
जनगणमतमुक्ताकर्षिणी तान्त्रिकीयम्।।7
अयि हृदय तदीयं मुग्धसौन्दर्यलीला-
न्तरितविकटरूपं पश्य धैर्येण बुद्ध्या।
नहि नयनयुगं तत् पश्यति स्वात्मदैन्यात्
स्थिरमतिरिह यद्वा पश्यति स्वात्मयोगात्।।8
निजपरिचितगत्या त्वां विमोह्यापि मुग्धा
निवसति तव चित्ते चातुरीं दर्शयन्ती।
तव मधुगुणगानैस्त्वां निपात्याद्य गर्ते
हसति कनकमञ्चे त्वद्बलेनैव लोके।।9
No comments:
Post a Comment