नववर्षपञ्चकम्
*************
(१)
वर्षारम्भः सकलजगतो जानुयार्यद्वितीयाद्
देशे देशे मुदितमनुजा उत्सवं पालयन्ति।
पश्याऽस्माकं जननमरणं राजते तद् गृहीत्वा
हिन्दो ! तस्मान्न भव विमना नूतने विश्ववारे।।
(२)
चैत्रे शुक्ले प्रथमदिवसे नव्यवर्षं वसन्ते
हिन्दूनां संभवति नियतं नात्र संदेहलेशः।
किन्तु क्षित्याः सकलतनया नो वयं किं वदन्तु
तस्मात् सर्वे सरसहृदया विश्ववारं भजन्तु।।
(३)
धर्माभावाद् विरसवदनः को न भवेन्नवाह्नि
यस्मात् कालश्चलति जगतः कार्यभारं गृहीत्वा।
तस्माद् द्वन्द्वं हृदयकुहरात् सत्वरं वर्जयित्वा
सर्वैः सार्धं भुवि भव सखे! नूत्नसंवत्सरेऽस्मिन्।।
(४)
नो वा हिन्दुर्न च मुसलमान् ख्रीष्टधर्मी न बौद्धो
जैनो नो वा निखिलवसुधासर्वलोकाः कुटुम्बम्।
मत्वाप्येवं नवदिनमिदं विश्वनृणां हिताय
प्रीताः सर्वे कुशलवचनैः स्वागतं तस्य कुर्युः।।
(५)
निन्दां वैरं कुटिलचरितं क्रूरतां क्रोधभावं
त्यक्त्वा सर्वे विहसितमुखैर्नव्यवस्त्रैः समोदाः।
वाद्यैर्गीतैर्विविधनटनैर्जग्धिभिर्भव्यवाक्यैः
पूजाकार्यैर्निजशुभकृते स्वागतं तस्य कुर्युः।।
(व्रजकिशोरः)
No comments:
Post a Comment