नववर्षस्य शुभकामनाः
नववर्षमिदं मम देशकृते
सुखशान्तियुतं कुरु मे भगवन्!
धनधान्यवती धरणी भवतु
कृषकाः श्रमिका ऋणिका न पुनः।।(1)
चरणेषु गुरोः जनकस्य तथा
ननु मातुरहो प्रणुतिर्हि सदा।
निजसंस्कृतिरक्षणशक्तियुताः
मम देशसुताश्च भवन्तु पुनः।।(2)
पठने निपुणा बटवः सकलाः
गुरवो निजकार्यरता मनसा
अमला च छविर्मम नेतुरहो
सबला अबलाश्च भवन्तु पुनः।।(3)
कवयो गुरवो बटवो भिषजा
वणिजो सचिवाः कृषकाः श्रमिकाः।
रसिकाः सुहृदो रिपवोऽपि तथा
सुखिनः सफलाश्च भवन्तु पुनः।।(4)
छन्द ----तोटकम्
रचयिता ----मार्कण्डेयो रवीन्द्र:
No comments:
Post a Comment