*ॐ सुरभारत्यै नमः॥ जयश्रीकृष्ण 🙏🌹*
     *लृङ् (हेतुहेतुमद्भविष्यत् काल)*
अवदिष्यत्     अवदिष्यताम्    अवदिष्यन्
अवदिष्यः      अवदिष्यतम     अवदिष्यत
अवदिष्यम्     अवदिष्याव      अवदिष्याम
*यदि सा अवदिष्यत् तर्हि अयम् अवदिष्यत् ।*
     (यदि वह बोलेगी तो यह बोलेगा।)
*यदि सः अवदिष्यत् तर्हि इयम् अवदिष्यत् ।*
     (यदि वह बोलेगा तो यह बोलेगी।)
*यदि तौ अवदिष्यतां तर्हि इमे अवदिष्यताम् ।*
  (यदि वे दोनों बोलेंगे तो ये दोनों बोलेंगी।)
*यदि ते अवदिष्यतां तर्हि इमौ अवदिष्यताम् ।*
  (यदि वे दोनों बोलेंगी तो ये दोनों बोलेंगे।)
*यदि ताः अवदिष्यन् तर्हि भवन्तः अवदिष्यन् ?*
  (यदि वे सब बोलेंगी तो आप सब बोलेंगे?)
*यदि ते अवदिष्यन् तर्हि भवत्यः अवदिष्यन् ।*
  (यदि वे सब बोलेंगे तो आप सब बोलेंगी?)
*यदि इमाः अवदिष्यन् तर्हि अहम् अवदिष्यम् ।*
     (यदि ये सब बोलेंगी तो मैं बोलूँगा ।)
*यदि इमे अवदिष्यन् तर्हि आवाम् अवदिष्याव ।*
   (यदि ये सब बोलेंगे तो हम दोनों बोलेंगे।)
*यदि त्वं न अवदिष्यः तर्हि कः अवदिष्यत् ?*
  (यदि तुम न बोलोगे तो कौन बोलेगा?)
*यदि युवाम् अवदिष्यतं तर्हि सा कथम् अवदिष्यत् ?*
  (यदि तुम दोनों न बोलोगे तो वह क्यों बोलेगी?)
*यदि यूयं न अवदिष्यत तर्हि वयं न अवदिष्याम ।*
(यदि तुम सब न बोलोगे तो हम सब न बोलेंगे।)
       *यदि सर्वे अवदिष्यन् संस्कृतेन तर्हि*
       *सर्वेषां नूनं कल्याणम् अभविष्यत् ।*
        (यदि सभी संस्कृत में बोलेंगे तो
          अवश्य सबका कल्याण होगा।)
*जयतु संस्कृतम् ॥ॐ॥ जयतु भारतम् ॥*
 
No comments:
Post a Comment