Thursday, October 3, 2019

Sanskrit joke

गणित-शिक्षकः कक्षायाम् एकं छात्रं पृष्टवान्- रमेश ! त्वं वद, यदि एकः कर्मकरः एकं प्रकोष्ठं स्वच्छीकर्तुम् एकघण्टात्मकं समयं व्ययीकरोति, यदि द्वौ कर्मकरौ तदेव कार्यं कुरुतः तर्हि  कियान् समयः अपेक्ष्यते ?
रमेशः त्वरया उत्तरति- महाशय !चतस्रः घण्टाः अपेक्ष्यन्ते ।
शिक्षकः- तत्कथम् ?
रमेशः- तौ मिलित्वा कार्यं विहाय अधिकं वार्तालापं कुरुतः इत्यतः।

No comments:

Post a Comment