Friday, September 20, 2019

On teacher's day - Sanskrit poem

शिक्षकदिवसे
*****
(१)
माता दर्शनगुप्ततथ्यनिचयं त्राता सुछात्रान् गुणैः
दाता ज्ञानततिं प्रशान्तहृदयो नेता प्रसिद्धोपि यः।
गाता देशकथां विदेशनिकटे पाता प्रजाः सादरं
ज्ञाता शिक्षकवेदनां निजधिया राधादिकृष्णं नुमः।।
(२)
छात्रप्राण उदारभावभरितः ख्यातो महाध्यापकः
श्रेष्ठो दर्शनदर्शकोतिसरलः शास्त्रीयतत्त्वे पटुः।
शिष्टः शिक्षकसेवको नतमती राष्ट्रस्य नेता महान्
आसीद् राष्ट्रपतिर्गुणेन गरिमा राधादिकृष्णाख्यकः।।
                  (व्रजकिशोर)

No comments:

Post a Comment