Friday, September 20, 2019

Durga puja - Sanskrit joke

अस्माकं दुर्गापूजा सन्निहिता एव!

जनाः नूतनानि वस्त्राणि क्रेष्यन्ति!

एकः आपणिकः गृहं गत्वा स्वपत्नीम् उक्तवान् अयि शृणोतु! अहं बुभुक्षितः अस्मि अतः शीघ्रं मह्यं भोजनं ददातु!

गृहिणी उक्तवती- मम महती शिरोवेदना बाधते! अहं किञ्चित् विश्रामं कुर्वती अस्मि!
कृपया भवान् स्वयमेव पात्रात् अन्नं निष्कास्य खादतु, व्यञ्जनम् अपिच भर्जकानि अपि सन्ति!

आपणिकः इत्युक्ते तस्याः पतिः उक्तवान्- अहो एवं वा! अहं तु चिन्तितवान् यत् शीघ्रं भोजनं समाप्य भवत्याः सह विपणीम् गत्वा वस्त्राणि क्रेष्यामि इति!
परन्तु भवत्याः तु शिरोवेदना अस्ति अतः अद्य तु न भविष्यति!

तदा झटिति सा उत्थाय उक्तवती- अहो अस्तु अस्तु! इदानीमेव भवत्कृते अहं भोजनं आनयामि अहं तु केवलं विनोदाय एव उक्तवती आसम्!

मम शिरोवेदना नास्ति!

चिन्तयन्तु, दुर्गापूजा सन्निहिता खलु! तदर्थम् एव हिन्दूनां गृहेषु महिलाः कियत्यः प्रसन्नाः भवन्ति! 😊😂

No comments:

Post a Comment