Thursday, August 22, 2019

4 temples for Rama brothers- Ramayanam - Sanskrit article

केरलराज्ये मलयालमासस्य कर्किटकमासस्य प्रथमदिनाङ्कतः "नालम्पल"-दर्शनस्य ( चतुर्मन्दिर/चतुर्धामदर्शनस्य ) तीर्थाटनस्य समारम्भः भवति । केरलराज्ये तृश्शूर्-एर्णाकुल-जनपदयोर्मध्ये श्रीराम-भरत-लक्ष्मण-शत्रुघ्नानां चत्वारि मन्दिराणि वर्तन्ते । तृप्रयार् – श्रीराम मन्दिरम् , इरिङङालक्कुटा श्रीकूटल्माणिक्यं-श्रीभरत मन्दिरम् , मूषिकुलं-श्रीलक्ष्मण मन्दिरम् , पायम्मल् – श्रीशत्रुघ्न मन्दिरम् ।  एतानि चत्वारि मन्दिराणि "नालम्पलम् " इति प्रसिद्धानि । एतेषु चतुर्षु मन्दिरेषु एकस्मिन्नेव दिने दर्शनं महत् पुण्यप्रदम् इति नितरां प्रसिद्धम् । श्रीरामक्षेत्रदर्शनेन तीर्थाटनस्य आरम्भः भवति । ततः क्रमशः भरतस्य लक्ष्मणस्य  शत्रुघ्नस्य च दर्शनं कृत्वा पुनः श्रीराम मन्दिरे तीर्थाटनस्य समापनम्  भवति ।
केरलराज्ये कर्किटकमासः "रामायणमासम् " इति आचर्यते । कर्किटकमासे ( आषाढ-श्रावणम् ) रामायणपारायणं भवति सर्वत्र। गृहेषु मन्दिरेषु च रामायणपारायणं भवति मासपर्यन्तम् ।
अस्मिन् पुण्यकाले श्रीरामादीनां चतुर्णां दर्शनं तीर्थाटनं च विशेष प्राधान्यम् आवहति । एतस्य मासस्य प्रथमगुरुवासरे नालम्पल-दर्शनस्य विशेष प्राधान्यं वर्तते । सामान्येन सर्वेषु गुरुवासरेषु तीर्थाटकानां अधिक सम्मर्द्धः वर्तते । प्रतिदिनं राज्यस्य विविधेभ्यः कोणेभ्यः भक्तजनाः दर्शनार्थम् आगच्छन्ति । मन्दिरेषु सुलभदर्शनाय व्यवस्थाः सुसज्जताः कृताः ।  प्रतिदिनं चतुस्सहस्राणां भक्तानां कृते पङ्क्तौ स्थित्वा क्रमशः दर्शनं कर्तुं योग्याः व्यवस्थाः कृताः मन्दिरजनैः । पर्यटनार्थं विशेषलोकयानव्यवस्था अपि परिकल्पिता सर्वकारेण ।

भरतलक्ष्मणशत्रुघ्नसमेतं श्रीरामं भूयो भूयो नमाम्यहम् ।
श्री राम राम राम लोकाभिराम जय !

No comments:

Post a Comment