Thursday, August 22, 2019

Lazy boy- Sanskrit story

अलसो बालकः!!
------------------------------
एकः बालकः आसीत्!
सः अत्यन्तम् अलसः आसीत्!

सः स्वकार्यम् अपि न करोति स्म!
नित्यं सः विद्यालयम् अपि न गच्छति स्म!

एकदा सः चिन्तितवान्, अद्य अहं विद्यालयं न गमिष्यामि, उद्याने कन्दुकेन पक्षिभिः साकं क्रीडिष्यामि इति!

ततः सः उद्यानं गतवान्!
उद्याने एकः अपि जनः न आसीत्!

तत्र सः एकस्य वृक्षस्य शाखायाम् एकं काकं दृष्टवान्!

बालकः अवदत् भो काक! आगच्छ मया सह क्रीड इति!

काकः अवदत् भो बालक! इदानीं प्रातःबेला अस्ति! अहं जनजागरणाय गच्छामि, मम बहु कार्यम् अस्ति!
अवकाशः एव नास्ति, त्वमेव क्रीड इति!

ततः सः उद्याने कपोतान् दृष्टवान्!
सः तान् अकथयत् भो मित्राणि! आगच्छत अत्र क्रीडामः इति!

तदा एकः कपोतः तं अवदत्- अधुना वयं भोजनाय क्षेत्रं गच्छामः! शोभनां बेलां वयं वृथां न यापयिष्यामः इति!

अनन्तरं सः एकं भ्रमरं दृष्टवान्!
तम् अवदत् अरे भ्रमर! त्वं सदा मकरन्दपानं करोषि, इदानीं मया सह क्रीड इति!

भ्रमरः अकथयत्- यदि अहं त्वया सह क्रीडामि तर्हि कदा परागं ग्रहीष्यामि! त्वम् अपरेण सह क्रीड इति!

पिपीलिका अपि तथैव अकथयत्!  

तत्पश्चात् स अलसः बालकः अचिन्तयत्- अस्मिन् संसारे खगाः, मृगाः, कीटाः अपि अलसाः न सन्ति! अहमेव किमर्थम् अलसः भवामि इति!

तदा सः प्रतिदिनं विद्यालयम् अगच्छत् सम्यक् अध्ययनं च अकरोत्, अन्ते च सः पण्डितः अभवत्!!
🌷
-प्रदीपः

No comments:

Post a Comment